Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो सोऊण तस्स पडिसेवणं तु आलोअणं कमविहिं च । आगम पुरिसज्जायं परिआय बलं च खित्तं च ।। अवधारेउं सीसो गंतूण य सो तओ गुरुसगासे । तेसि निवेएइ तहा जहाणुपुबी गत सबं' ।।
(व्य०सू० ४४६८-४४६९, जी०भा० ६३६-६३७, गु०वि० २/२४-२५) स गूढपदावधारकः शिष्यस्तस्याऽऽचार्यस्य प्रतिसेवकस्य प्रतिसेवामालोचनां च क्रमविधिं च मूलोत्तरगुणविषयं श्रुत्वा, आगमम् आगमधरत्वम्, पुरुषजातं वाऽऽचार्यादि, पर्यायं व्रतवयोविषयम् , बलं च वपुःसामर्थ्यम् , क्षेत्रं च कर्कश-साधारणादिरूपम्, अवधार्य, ततो गत्वा गुरूणां प्रायश्चित्तदातर सकाशे यथाऽनुपूर्व्या श्रुतं तत्तथा सर्वं तेषां निवेदयति । ततःसो ववहारविहिन्नू अणुमज्जिअ तं सुओवएसेणं । सिस्सस्स देइ आणं तस्स इमं देहि पच्छित्तं' ।।
(व्य०सू० ४४७०, जी०भा० ६३८) स प्रायश्चित्तदाता आगमादिव्यवहारविधिज्ञस्तत्र स्वयं गन्तुमक्षमः स्वशिष्यं प्रेषयति, तदभावे आगतशिष्यस्यैवाऽऽज्ञां ददाति, अनुमृज्य तं गूढपदालोचितमतीचारं श्रुतोपदेशेन विशोध्य, तथा तस्याऽऽचार्यस्येदं प्रायश्चित्तं दद्या इति गूढपदैरेव कथयति । तानि चैतानिपढमस्स य कज्जस्सा दसविहमालोअणं निसामित्ता । नक्खत्ते भे पीडा सुक्के मासे तवं कुणह' ।।
(व्य०सू० ४४७१, जी०भा० ६३९, गु०वि० २/२६ टीकान्तर्गतगाथा) धाउम्मासं तवं कुणह, छम्मासं तवं कुणह, सुक्के' इति सञ्चारितान्त्यपदा पुनरेषैव गाथा द्विः पठनीया । आसामर्थः-प्रथमस्य कार्यस्य दर्पिकासेवनाऽऽख्यस्य दशविधामालोचनां दर्पकल्पादिदशपदात्मिकां निशम्य नक्षत्रे भे भवतां पीडा पीडकत्वेनोपचाराद्विराधना । कोऽर्थः ? चन्द्रादित्यग्रहनक्षत्रतारकभेदपञ्चविधज्योतिश्चक्रमध्ये नक्षत्रभेदश्चतुर्थः । अतोऽनेन चतुर्थव्रतगोचरा विराधना सूच्यत इति एके व्याचक्षते । अन्ये त्वाषाढाद्याः संवत्सरा इति । तदाद्यदिने ज्येष्ठपूर्णिमानन्तरप्रतिपदि संवत्सरमूलदिवसे मूलनक्षत्रं भवति । ततः प्राधान्यादत्र नक्षत्रशब्देन मूलं भणन्ति । तेन मूलगुणविराधनां प्राणातिपाताद्यतिचाररूपां ज्ञापयन्ति । अपरे त्वादिषु नक्षत्रेषु सर्वेषु वृष्टेऽपि मेघे हस्तवृष्टिं विना न धान्यानि विशिष्टां पुष्टिं बध्नन्ति । ततो हस्तस्य प्राधान्यमिच्छन्तोऽत्र नक्षत्रध्वनिना हस्तं निर्दिशन्ति । ततो हस्तेनाऽदत्तमात्रं हस्तकर्म वा कृतमिति तृतीयचतुर्थव्रतातिचारसूचा । एके तु नक्षत्राणि लोके सप्तविंशतिळवह्रियन्त इति । नक्षत्रशब्देनानगारगुणानां मूलोत्तरगुणरूपाणां सप्तविंशतिसङ्ख्यानां विराधनामाहुः । तथा चाऽऽवश्यके प्रतिक्रमणाध्ययने- सत्तावीसाए अणगारगुणेहिं' ति । वयछक्कमिंदिआणं च निग्गहो भावकरणसच्चं च । खमया विरागया वि अ मणमाईणं निरोहो अ' ।। कायाणं छक्क जोगंमि जुत्तया वेअणाहिआसणया । तह मारणंतिअहिआसणा य एए णगारगुणा'।।
A. अवधारितम् ।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 226