Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 403
________________ ३५८ हितोपदेशः । गाथा - ३७० ३७१, ३७२ - आत्मोत्कर्षे दोषश्रेणी ।। आत्मोत्कर्षः न विधेयः ।। शून्यमना मुकुलितचित्तचैतन्यो वैकल्यमुक्तानुश्लीला श्लीलदत्तादत्तकृतशुच्यशुचिविभागविरहितं प्राप्नोति । किं वा बहुभिरभिहितैर्यावत् क्रमेण निधनं विनाशमपि लभते । अतस्तत्त्ववृत्त्या विचार्यमाणः किलात्मोत्कर्षादपरोऽपि देहिनां क इह शत्रुः । न खलु मरणादधिकं किमपि शत्रुरपि कर्त्तुमलम् । तस्मादेवमुत्तरोत्तरदोषाश्लेषकलुषः कषणीय एव विदुषामात्मोत्कर्ष इति ।। ३६९ ।। किञ्च - केणापि अकयपुव्वं असुयमदिट्ठे अचिंतणिज्जं च । जह किंपि कीरइ जए अत्तुक्करिसो वि ता होउ ।।३७० ।। अस्मिन् जगति यदि किमप्येवं वक्ष्यमाणस्वरूपं कर्तुं पार्यते । किंविशिष्टम् ? केनाप्यमानवशक्तियुक्तेनाप्यकृतपूर्वम् । कस्मादपि देशकालविप्रकृष्टादपि अश्रुतचरम् । कस्यापि चिरजीवि - नोऽप्यदृष्टपूर्वम् । कथमपि ध्यानैकतानतयाप्यचिन्तनीयम् । यावत् कायावाङ्मनसामप्यगोचरः । तदा विधातुमनुचितोऽपि सुधियां, विधीयतां नामायमप्यात्मोत्कर्ष इति । । ३७० ।। तथाहि - तथाहीत्यादिना पूर्वोक्तमेवार्थं समर्थयति अमयमकंततगुणो आनंदियसयलजीवलोगस्स । चंदस्स जइ कलंको अवणिज्जइ होउ ता गव्वो ।। ३७१ ।। अमृतमयीव पीयूषदलप्रकृतेव कान्ता तनुर्यस्य स तथा । तत एवानन्दितसकलजीवलोकस्य सम्प्रीणिताशेषचराचरजगज्जन्तुजातस्य एवंविधस्य चन्द्रस्य सुधादीधितेः कलङ्को लाञ्छनं स्वाभाविकेनौपाधिकेन वा महिम्ना यदि कथमप्यपनीतो भवति तदा भवतु नाम गर्वः । एतच्च मनसोऽप्यगोचरम् । शाश्वतस्वरूपत्वाच्छशलाञ्छनलाञ्छनस्य ।। ३७१ ।। तथा भूओवमद्दरहिएहिं नीइघडिएहिं निययविहवेहिं । मो भुवणजो रिणाउ जइ होउ ता गव्वो ।। ३७२ ।। भूतोपमर्द्दः पराभिसन्धानादिस्तद्विरहितैरत एव नीतिघटितैर्न्यायोपार्जितैर्निजकैः स्वकीयैर्न पुनर्मलिम्लुचवृत्त्या हठाऽपहतैरेवम्भूतैर्विभवैर्भुवनजनो यदि कथञ्चिदृणान्मोच्यते तदा भवत्वहङ्कारोऽपि एतच्च दुष्करतरम् । जनपदमात्रेऽपि तथा कर्तुमशक्तेः, किं पुनर्विश्वस्मिन् विश्व इति ।। ३७२ ।। तथा गाथा-३६९ 1. ०नुक्ताश्लीलाश्लीलदत्तादत्तकृताकृतशुच्यशुचिं इति पाठो समीचीनो भाति । - सम्पा० ।। Jain Education International 2010_02 - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534