Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 443
________________ हितोपदेशः । गाथा-४२८ - द्वितीयगुणव्रतस्वरूपम् ।। उपलक्षणं चैतन्मांसस्य । ततः स्थल-जल - खचरादिजन्तूनां त्रिविधं मांसम् । तथा रजनीभक्तमन्यदप्येवम्प्रकारं प्रत्यक्षदृष्टदोषं केवलिदृष्टदोषं च वर्जनीयवस्तुजातं वर्जयेत् । तथा च तत्सङ्ग्रहगाथा - 'पंचुंबरि" चउविगई' हिम"-विस" - करगे" य सव्वमट्टी य । राईभोयणगं४ चिय बहुबीय" - अनंत " - संधाणा " ।।१।। घोलवडा" वाइंगण" अमुणियनामाइं पुप्फफलयाई । तुच्छफलं" - चलियरसं वज्जह वज्जाणि बावीसं ||२|| [ ३९८ ] इति तथा अशन-खाद्य-स्वाद्य-पान-वस्त्र- आभरण-कुसुमाङ्गराग-शयन- आसन- सच्चित्त- द्रव्यविकृतिप्रभृतीनां प्रतिदिनोपभोग्यानामाहोरात्रिकीं प्रमितिमत्र व्रते विधत्ते ।।४२८।। 2. अभक्षस्य संग्रहगाथा तच्चेदम् - पंचुंबरि चउविगई हिम-विस- करगे य सव्वमट्टी य । रयणीभोयणगं चिय बहुबीय - अणंत-संधाणं ।।२४५।। घोलवडा वायंगण अमुणियनामाणि फुल्ल-फलयाणि । तुच्छफलचलियरसं वज्जह वज्जाणि बावीसं ।।२४६।। 'पंचुंबरी 'त्यादि पञ्चानामुदुम्बराणां समाहारः पञ्चोदुम्बरी - वट-पिप्पलोदुम्बर-प्लक्ष- काकोदुम्बरीफलरूपा समयप्रसिद्धा, सा मशकाकारसूक्ष्मबहुजीवभृतत्वाद्वर्जनीया, तथा चतस्रो विकृतयो मद्य मांस-मधु-नवनीतरूपा वर्ज्याः, सद्य एव तत्र तद्वर्णानेकजीव-सम्मूर्च्छनात्, तथा हिमं शुद्धासङ्ख्याप्कायरूपत्वात्, तथा विषं मन्त्रोपहतवीर्यमपि उदरान्तर्वर्तिगण्डोलकादिजीवविघातहेतुत्वात्, मरणसमये महामोहोत्पादकत्वाच्च, तथा करका अप्यसङ्ख्याप्कायिकत्वात् तथा सर्वापि मृत्तिका दर्दुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तत्वात्, सर्वग्रहणं खटिकादि तद्भेदपरिग्रहार्थम्, तद् भक्षणस्यापि आमाश्रयादिदोषजनकत्वात्, तथा रजनीभोजनं बहुविधजीवसम्पातसम्भवेन ऐहलौकिकपारलौकिकदोषदुष्टत्वात्, तथा बहुबीजं - पम्पोटकादि प्रतिबीजं जीवोपमर्दसम्भवात्, तथा अनन्तानि अनन्तकायिकानि अनन्तजन्तुसन्ताननिर्घातननिमित्तत्वात्, तथा सन्धानम् - अस्त्यानकं बिल्वकादीनां जीवसंसक्तिहेतुत्वात् ।।२४५।। तथा 'घोलवडे 'त्यादि, घोलवटकानि उपलक्षणत्वादामगोरससम्पृक्तद्विदलानि च केवलिगम्यसूक्ष्मजीवसंसक्तिसम्भवात्, तथा वृन्ताकानि निद्राबाहुल्यमदनोद्दीपनादिदोषदुष्टत्वात्, तथा स्वयं परेण वा येषां नाम न ज्ञायते तान्यज्ञातनामानि पुष्पाणि फलानि, अज्ञानतो निषिद्धफलप्रवृत्तौ व्रतभङ्गसम्भवात् विषफले तु प्रवृत्तौ जीवितविनाशात्, तथा तुच्छम् - असारं फलं मधूकबिल्वादेः उपलक्षणत्वाच्च पुष्पमरणि-शिगु-मधुकादेः, पत्रं प्रावृषि तण्डुलीयकादेः बहुजीवसम्मिश्रत्वात् यद्वा तुच्छफलम् -अर्धनिष्पन्नकोमलचवलकशिम्बादिकम्, तद्भक्षणे हि तथाविधा तृप्तिरपि नोपजायते, दोषाश्च बहवः सम्भवन्ति, तथा चलितरसंकुथितान्नम्, उपलक्षणत्वात् पुष्पितौदनादि, दिनद्वातीतं च दधि वर्जनीयम्, जीवसंसक्तया प्राणातिपातादिलक्षणदोषसम्भवात् एतानि द्वाविंशतिसङ्ख्यानि वर्जनीयानि वस्तूनि कृपापरीतचेतसः सन्तो हे भव्यजना ! वर्जयत परिहरतेति । । २४६ | | - प्रव. सा. गा. २४५-२४६ वृत्तौ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534