Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 504
________________ हितोपदेशः । गाथा-४९८, ४९९ - क्रोधकषायस्य स्वरूपम् ।। मानकषायस्य स्वरूपम् ।। ४५९ सहचारिण्या सुरासुरस्वामिभ्योऽपि निर्भया विहिताः । अत: कथं नाश्रयणीयेयं क्षमा मुमुक्षूणामिति ।।४९७ ।। इदं च क्षमाबलमतुलमपि विचारचतुरचेतसामेव चेतसि चमत्कारकारि इति । अल्पदृश्वानस्तु मन्यते पराभवास्पदमेवेयं क्षमेत्यतस्तन्मताभ्युपगमेनाह - जइ वि खमा परिभूया जइ वि खमंतस्स आयरो नत्थि । तह वि खमा कायव्वा खमासमो बंधवो नत्थि ।।४९८ ।। क्षमाक्षमावतोरभेदोपचारात् क्षमा । क्षमावतः परिभवे तत्त्वतः क्षमाया एव परिभवः । अतो यद्यप्यपरमार्थदृश्वभिः प्राकृतजनैः क्षमा सर्वात्मना परिभूता । यद्यपि च क्षमां कुर्वाणस्य जने सर्वथैव नादरः, तथापि परमार्थवेदिना कर्त्तव्यैव क्षमा । यतः क्षमासमः कोऽप्यपरो न तत्त्वतो बन्धुरस्ति । दशविधस्यापि यतिधर्मस्याद्याङ्गभूतत्वात् क्षमायाः । न चैनां विना जगत्यपरोऽपि क्रोधविजयप्रकारः । स्वयमादृता चेयं जगद्ध्वंसन-रक्षणक्षमपराक्रमवद्भिरप्यर्हद्भिरतो मोक्षाङ्गभूतत्वेनादरणीयैव तदर्थिभिः क्षमेति ।।४९८ ।। मानकषायमधिकृत्याह - जाइकुलरूवपमुहा भवे भवे विसरिसत्तणमुविंता । कह हुंतु मयनिमित्तं पत्ता वि हु मुणियतत्ताणं ।।४९९।। किल जात्यादिमदस्थानान्यवलम्ब्य प्राणिनां मानः समुत्पद्यते । तानि च पूर्वसुचरितसुकृतप्रभावतः प्राप्तान्यपि ज्ञाततत्त्वानां कथं मदनिमित्तं भवन्तु । कथम्भूतानि भवे भवे जन्मनि जन्मनि वैसदृश्यात् परिणमनशीलानि । एतदुक्तं भवति - किल क्रियेतोत्तमजातिकुलरूपबल गाथा-४९९ 1. तुला - विनयश्रुतशीलानां त्रिवर्गस्य च घातकः ।। विवेकलोचनं लुम्पन् मानोऽन्धकरणो नृणाम् ।। - यो. शा. ४/१२ ।। श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ।। - प्रशमरति श्लो. २७ ।। 2. तुला - जातिलाभकुलैश्वर्यबलरूपतप:श्रुतैः । कुर्वन्मदं पुनस्तानि हीनानि लभते जनः ।। - यो. शा. ४/१३ ।। जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः । क्लीबाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ।। - प्रशमरति श्लो. ८० ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534