Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 510
________________ हितोपदेशः । गाथा-५१५, ५१६, ५१७ - कषायकषणे प्रयत्नं कुरुत ।। ४६५ तस्मादेवं सम्यगस्यातरौद्रयोः पूर्वोपदर्शितयोर्दुर्ध्यानयोर्मूलबीजं लोभं चतुर्थसम्परायं निरोद्धं मूलादुन्मूलयितुमर्हत्प्रवचनरहस्यभूतं सन्तोषरसायनं पिबत । किम्भूतम् ? मूर्छाविच्छेदकरं . तृष्णोच्छेदननिष्णातं, समुचितश्च रसायनपानेन मूर्छादिरोगातङ्कानां विच्छेदः ।।५१४ ।। किञ्च - . कोहाइए कसाए, उप्पजंते वि झत्ति रुधिजा। रोगेसु व कायव्वो, थोव त्ति अणायरो न जओ ।।५१५ ।। एतांश्च पूर्वोदितान् क्रोधादीन् क्रोधमानमायालोभलक्षणान् कषायानुत्पद्यमानानपि झटिति त्वरितं निरुन्ध्यात् । स्तोका संज्वलनाद्यवस्था । किलते न तथा विकारिण इत्यनादरो न विधेयः । केष्विव ? रोगेष्विव पथ्यादि । प्रथमोद्भव एवानिगृह्यमाणा रोगाः कालेनाचिकित्स्यतां प्रयान्ति ।।५१५ ।। तथैतेऽपीत्येतदेव निदर्शनान्तरैर्द्रढयते - अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च । न हु भे ! वीससियव्वं थोवं पि हु तं बहुं होइ ।।५१६ । । [सम्बोधसित्तरी गा. १०८] 'अणथोवं वणथोवं अग्गीथोवे' त्यमीषां चतुर्णां स्तोकानां स्तोकान्येव किलास्तन्यातः[?] किमेतन्निग्रहो यत्क्रमेणेति 'भे' भव [भवे] हि विश्वासो न विधेयः । यतः - प्रथमं स्तोकत्वादनादरेणोपेक्ष्यमाणानि कालेन चोपचीयमानानि नखच्छेद्यावस्थामतिक्रम्य कुठारच्छेद्यावस्थामापन्नानि सुमहति खेदे देहिनं पातयन्त्यतः प्रथमोद्भव एव निरोद्धव्यानि ।।५१६ । ।अथ किमर्थमियान् कषायकषणे प्रयत्न इति चेत् तदाह - उवसंतकसायाणं, निच्छयओ होइ भावचारित्तं । तं चिय वयंति मुणिणो अवंझबीयं सिवतरुस्स ।।५१७।। यस्मादुपशान्तकषायाणां तिरस्कृतसम्परायोदयानामेव मुनीनां निश्चयतो निश्चयनयाभिप्रायेण भावचारित्रं पारिणामिक: संयमो भवति तदा क्षीणरूपत्वात् कषायाणाम् । अथ भावचारित्रमेव क्वोपयोगीति चेद्, उच्यते । तदेव भावचरणमेव मुनयत्रिकालवेदिनः शिवतरोर्मोक्षवृक्षस्यावन्ध्यं सफलबीजं वदन्ति ।।५१७ ।। गाथा-५१६ 1. किल सन्त्यतः इति पाठो संगतो भाति । सम्पा० ।। 2. 'भे' त्वया इत्यर्थः ।। ___JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534