Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-५०९, ५१० - लोभकषायस्य स्वरूपम् ।।
४६३
आर्जवं ज्ञानगोचरे चतुरत्वे सत्यपि सत्कर्मसु सरलाशयत्वं सदैवात्मनः सन्निहितं कुरुध्वम् । कमिव ? अयःकान्तमणिमिव । यथा हि सन्निहितायःकान्तमणीनामक्लेशसाध्यं निगडविघटनमेवमार्जवसहचरितानां निकृतिकृन्तनमिति ।।५०८।। साम्प्रतं लोभमभिसन्धायाह -
गाहंति गहिरमुवहिं अडंति वियडाडवीसु भीमासु ।
पविसंति य विवरेसुं रसकूइयं पलोयंति।।५०९।। यदेतदेतेऽङ्गभाजः किल कुर्वन्ति तत् सकलमपि लोभस्य विलसितमिति गाथाकलापकप्रान्तगाथया सम्बन्धः । किं तदित्याह - गम्भीरमलब्धपारमपरमिव संसारमुदधिपारावारमपरापरायशतपरीतं वित्तार्थं यद् गाहन्ते । यच्च विकटासु विस्तीर्णासु विविधहिंस्रसत्त्वसङ्कटास्वत एव भीमासु भयङ्करास्वटवीष्वरण्यानीष्वटन्ति । यञ्च यक्षाङ्गनासङ्गरङ्गतरङ्गितबिलेषु सर्वत्र चन्दनकक्षसोदरेषु श्वभ्रविवरेषु धूर्त्तकल्पितकल्पानुमानेन प्रविशन्ति । यञ्च कोट्यादिवेधसुप्रसिद्धाः रसकूपिका: प्रत्यवलमालोकयन्ति ।।५०९।। तथा -
तिहुयणविजयं विजं जवंति रत्तिं भमंति पेयवणे ।
कुब्वंति धाउवायं खिजंति य खत्रवाएण ।।५१०।। यञ्च निसर्गनिर्दयहृदयकापालिकाद्युपदेशेन पुरुषशतादिबलिप्रदानसाध्यां त्रिभुवनविजयाख्या विद्यां जपन्ति । यञ्च विविधिसिद्धिनिबन्धनासु बहलभूतेष्टादिरात्रिषु महामांसादिविक्रयमुदीरयन्तः प्रति प्रेतवनमनेकदुर्मनोरथनटिता: पर्यटन्ति । यञ्च नागेन नागराजेन नागवीजेन सुंदरिकुीठेन [?] प्रयोगेण पृथिव्यां पदे पदे निधानानि दृश्यन्त इत्यादि पुस्तकप्रत्ययेन तदुपनिषदुपदेशकान् गुरुन् सम्यगनुनीय खन्यवादेन खिद्यन्ते ।।५१०।। तथा - गाथा-५०९ 1. तुला - आकरः सर्वदोषाणां गुणग्रसनराक्षसः ।
कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ।। - यो. शा. ४/१८ ।। सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य ।
लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ।। - प्रशमरति गा. २९ ।।
2. रसकूइयाउ पाठो भाति । सम्पा० ।। गाथा-५१० 1.टीकामध्ये 'कुव्वंति धाउवाय' इति पदं विवृतं न दृश्यते, अत्र स्थाने हस्तप्रतिमध्ये 'त' इति केवलं अक्षरं दृश्यत अतः खण्डितपाठो भाति । सम्पा० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534