Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 505
________________ ४६० हितोपदेशः । गाथा-५००, ५०१, ५०२ - मानकषायस्य स्वरूपम् ।। श्रुततपोलाभैश्वर्यविषयो मदः प्राणिभिर्यद्यमूनि सनातनानि स्युः । यदि पुनर्भवपरिवर्ते वैपरीत्यमुपयान्ति ततः को नामैतद्गोचरोऽप्यहङ्कार इति ।।४९९।। अपरं च - जो जस्स मयट्ठाणस्स वहइ निरवग्गहं समुक्करिसं । सो तं चिय नियमेणं हीणयरे(रं) लहइ पइजम्मं ।।५०० ।। यः प्राणी यस्य जात्यादिमदस्थानस्य निरवग्रहं निरङ्कुशं समुत्कर्षमहमेव जात्यादिभिः सर्वोत्कृष्ट इत्येवंरूपं वहति । स तदेव नियमेन हीनतरं लभते । जातिमदेन जातिहीनो भवति । कुलमदेन कुलहीनः । एवं रूपादिष्वपि वाच्यं । तत् किमेकत्रैव जन्मनि, नेत्याह - प्रतिजन्म प्रतिभवमित्यहो दुर्विपाक: कुलादिमदस्येति ।।५०० ।। न चैतच्छास्त्र एव प्रत्यक्षं, किन्तु लोकेऽपीत्याह - कुलजाइरूवमेहा-बलविरियपहुत्तवित्तपरिहीणा । जं हुंति नरा सो नणु अट्ठमयट्ठाण य विवागो ।।५०१।। कुलेनोग्रादिना पितृभवेन वा, जात्या विप्रादिकया मातृप्रतिबद्धया वा, रूपेण सर्वाङ्गसौन्दर्येण, मेधयाऽर्थावधारणक्षमया प्रज्ञया, बलेन वपुःसामर्थ्येन, वीर्येणान्तरोष्मायितेन, प्रभुत्वेन स्वामित्वेन, वित्तेनाद्भुतभूतिसम्भारेण । एतैः कुलादिभिः, परि सामस्त्येन, हीना न्यूना, नरा: प्राणिनो, यदत्र जगति भवन्ति, स खलु अष्टानां मदस्थानानां विपाकस्ततस्त्याज्यान्येव तानि ।।५०१।। किञ्च - सविसेसं जे दोसा हुँति अहंकारतरलियमईणं । अत्तुक्करिसदुवारे पुरा वि ते पयडिया पायं ।।५०२।। 'अतो न च कुलादिप्रतिबद्धो नाहङ्कारेण [अत: कुलादिप्रतिबद्धेनाहङ्कारेण] तरलितमतीनां प्राणिनां सविशेषं ये दोषा भवन्ति ते पुरैवात्मोत्कर्षद्वारे प्रायः प्रकटिता इति नात्र भूयोऽभिधीयन्ते ।।५०२।। गाथा-५०२ 1. अतो न च कुलादिप्रतिबद्धो नाहङ्कारेण इति पाठो ह. प्रतमध्ये अशुद्धो भाति तत्स्थाने अतः कुलादिप्रतिबद्धेन अहङ्कारेण इति पाठः शुद्धो भाति ।। सम्पा. ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534