________________
४६०
हितोपदेशः । गाथा-५००, ५०१, ५०२ - मानकषायस्य स्वरूपम् ।।
श्रुततपोलाभैश्वर्यविषयो मदः प्राणिभिर्यद्यमूनि सनातनानि स्युः । यदि पुनर्भवपरिवर्ते वैपरीत्यमुपयान्ति ततः को नामैतद्गोचरोऽप्यहङ्कार इति ।।४९९।। अपरं च -
जो जस्स मयट्ठाणस्स वहइ निरवग्गहं समुक्करिसं ।
सो तं चिय नियमेणं हीणयरे(रं) लहइ पइजम्मं ।।५०० ।। यः प्राणी यस्य जात्यादिमदस्थानस्य निरवग्रहं निरङ्कुशं समुत्कर्षमहमेव जात्यादिभिः सर्वोत्कृष्ट इत्येवंरूपं वहति । स तदेव नियमेन हीनतरं लभते । जातिमदेन जातिहीनो भवति । कुलमदेन कुलहीनः । एवं रूपादिष्वपि वाच्यं । तत् किमेकत्रैव जन्मनि, नेत्याह - प्रतिजन्म प्रतिभवमित्यहो दुर्विपाक: कुलादिमदस्येति ।।५०० ।। न चैतच्छास्त्र एव प्रत्यक्षं, किन्तु लोकेऽपीत्याह -
कुलजाइरूवमेहा-बलविरियपहुत्तवित्तपरिहीणा ।
जं हुंति नरा सो नणु अट्ठमयट्ठाण य विवागो ।।५०१।। कुलेनोग्रादिना पितृभवेन वा, जात्या विप्रादिकया मातृप्रतिबद्धया वा, रूपेण सर्वाङ्गसौन्दर्येण, मेधयाऽर्थावधारणक्षमया प्रज्ञया, बलेन वपुःसामर्थ्येन, वीर्येणान्तरोष्मायितेन, प्रभुत्वेन स्वामित्वेन, वित्तेनाद्भुतभूतिसम्भारेण । एतैः कुलादिभिः, परि सामस्त्येन, हीना न्यूना, नरा: प्राणिनो, यदत्र जगति भवन्ति, स खलु अष्टानां मदस्थानानां विपाकस्ततस्त्याज्यान्येव तानि ।।५०१।। किञ्च -
सविसेसं जे दोसा हुँति अहंकारतरलियमईणं ।
अत्तुक्करिसदुवारे पुरा वि ते पयडिया पायं ।।५०२।। 'अतो न च कुलादिप्रतिबद्धो नाहङ्कारेण [अत: कुलादिप्रतिबद्धेनाहङ्कारेण] तरलितमतीनां प्राणिनां सविशेषं ये दोषा भवन्ति ते पुरैवात्मोत्कर्षद्वारे प्रायः प्रकटिता इति नात्र भूयोऽभिधीयन्ते ।।५०२।।
गाथा-५०२ 1. अतो न च कुलादिप्रतिबद्धो नाहङ्कारेण इति पाठो ह. प्रतमध्ये अशुद्धो भाति तत्स्थाने अतः कुलादिप्रतिबद्धेन अहङ्कारेण इति पाठः शुद्धो भाति ।। सम्पा. ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org