________________
हितोपदेशः । गाथा-५०३, ५०४,५०५ - मानकषायस्य स्वरूपम् ।।मायाकषायस्य स्वरूपम् ।। ४६१
एवं च यद् विधेयं तदाह -
तम्हा मद्दवपविणा माणगिरिं कुणह लूणपक्खमिणं ।
न विमद्दइ विणयवणं जेणे सो सिवसुहफलहूं ।।५०३।। तस्मादेवं सति मार्दवमेव पविवज्रं तेन मानगिरिमभिमानपर्वतमेनं लूनपक्षं कुरुत । किमित्याह - येनैष शिवसुखफलाढ्यं विनयवनं न विमर्दयति । किल गिरयो हि पुरा सपक्षा आसन् । ततश्चोड्डीयोड्डीयान्यत्रान्यत्र स्वेच्छया सञ्चरन्तो ग्रामाकरनगरकाननादि विमर्दितवन्तस्ततः कुलिशपाणिना कुलिशनिपातेन लूनपक्षाश्चक्रिरे । इतीयमुपमा तच्छायेति ।।५०३ ।। मायामुद्दिश्याह -
'माइंदजालमुवदंसिऊण वंचंति किर परं धुत्ता ।
मूढा न मुणंति इमं अप्पं चिय वंचिमो एवं ।।५०४।। माया निकृतिः सैवान्यथावस्थितानामर्थानामन्यथाप्रतिभासोत्पादात्तत इन्द्रजालमिवेन्द्रजालं, तदुपदये किलेत्यलीके धूर्ताः परमज्ञानं जनं वञ्चयन्ति । अलीकं च तेषां धूर्त्तत्वं । धूर्तास्तु हि दक्षास्ते चात्मपरिहारेण परानेव वश्चयन्ति । मायाविनस्तु परमार्थतो मुग्धा एव । ये किलैवमपि न विदन्ति यदेवं परातिसन्धानपरैरस्माभिरात्मैव तत्त्वतो वञ्च्यते । किमुक्तं भवति - किल छलेन मुग्धजनं विप्रतार्य तडित्तरलं धनलवं यायावरस्य जीवितस्यार्थे प्रार्थयन्तो लोकद्वयमपि हारयन्त्येव मायातस्ततः किं तेषां दक्षत्वमिति ।।५०४ ।।
तथा -
किं एवं विउसत्तं वंचिजइ जं जणो सुवीसत्थो ।
जइ अस्थि वियड्वत्तं तो वंचह जरमरणजालं ।।५०५।। किं नामैतद् वैदुष्यं यत् सुष्ठवतिशयेन विश्वस्तानङ्कपर्यङ्के शिरो निधाय प्रसुप्त इव जनो
गाथा-५०३ 1. तुला - उत्सर्पयन्दोषशाखा, गुणमूलान्यधोनयन् । उन्मूलनीयो मानद्रुस्तन्मादवसरित्प्लवैः ।।
___- यो. शा. ४/१४ ।। गाथा-५०४ 1. तुला - असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ।। कौटिल्यापटव: पापा मायया बकवृत्तयः । भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ।। - यो. शा. ४/१५-१६ ।। मायाशील: पुरुषो न करोति किञ्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः ।।
- प्रशमरति श्लो. २८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org