Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 487
________________ ४४२ हितोपदेशः । गाथा-४७६, ४७७ - भाषासमितेः स्वरूपम् ।। एषणासमितेः स्वरूपम् ।। मेयम् ।।१।। [ओघनियुक्ति भा. गा. ३] इति सप्ततिभेदानि । करणान्यपि - "पिंडविसोही "समिई १२भावण "पडिमा उ "इंदियनिरोहो । २५पडिलेहण' गुत्तीओ "अभिग्गहा चेव करणं तु ।।१।। [ओधनियुक्ति भा. गा. ३] इति सप्ततिभेदान्येव । अत एतेषु संयमयोगेषु यथाशक्ति स्वशक्तेरनतिक्रमेण यतिर्यतेत । अयथार्थभाषणमुत्सूत्रप्ररूपणं पुनर्यत्नेन महता प्रयत्नेन त्यजेत् । यतो भणितमागमेऽपि ।।४७५ ।। तदेव दर्शयति - "उस्सुत्तभासगाणं बोहीनासो अणंतसंसारो । पाणञ्चए वि धीरा तम्हा न वयंति उस्सुत्तं" ॥४७६।। [ ] मदाज्ञानादिभिरुत्सूत्रभाषकाणां बोधेस्तत्त्वार्थश्रद्धानरूपायाः शिवशाखिबीजकल्पाया नाशस्तत्प्रत्ययश्चानन्तसंसारस्ततः प्राणात्ययेऽपि धीराः सत्त्वशालिनः कदाचिदुत्सूत्रं न वदन्ति । तुरुमिणीदत्तानुयुक्तयज्ञफलकालिकाचार्यवत् ।।४७६।। एषणासमितिमाह उग्गमउप्पायणदुविहएसणासुद्धमत्रवत्थाई । कारणजाए जइणो गिण्हंता एसणासमिया ।।४७७।। गाथा-४७६ 1. तुला - एषणासमितिमाह - द्विचत्वारिंशता भिक्षादोषैनित्यमदूषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ।। - योग शा. १/३८ ।। द्वाभ्यामधिका चत्वारिंशत् द्विचत्वारिंशद् भिक्षादोषा उद्गमोत्पादनैषणालक्षणाः । तत्रोद्गमदोषा गृहस्थप्रभवाः षोडश, तद्यथा - आहाकम्मुद्देसिय पूईकम्मे अ मीसजाए अ । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ।।१।। . परिअट्टिए अभिहडे उब्भिण्णे मालोहडे इअ । अच्छिज्जे अणिसट्टे अज्झोयरए अ सोलसमे ।।२।। - [पिण्डनि. गा. ९२-९३] 'आधाय' विकल्प्य, यतिं मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुक्तादाधाकर्म ।।१।। उद्देश: साध्वर्थं सङ्कल्पः, स प्रयोजनमस्य औद्देशिकम्, यत् पूर्वकृतमोदन-मोदकक्षोदादि तत् साधूद्देशेन दध्यादिना गुडपाकेन च संस्कुतो भवति ।।२।। आधाकर्मिकावयवसम्मिश्रं शुद्धमपि यत्तत् पूतिकर्म शुचिद्रव्यमिवाशुचिद्रव्यसम्मिश्रम् ।।३।। यदात्मार्थं साध्वर्थं चादित एव मिश्रं पच्यते तन्मिश्रम् ।।४।। साधुयाचितस्य क्षीरादेः पृथक्कृत्य स्वभाजने स्थापनं स्थापना ।।५।। कालान्तरभाविनो विवाहादे: ‘इदानीं सन्निहिताः साधवः सन्ति, तेषामप्युपयोगे भवतु' इति बुद्ध्या इदानीमेव करणं समयपरिभाषया प्राभृतिका, सन्निकृष्टस्य विवाहादेः कालान्तरे साधुसमागमनं सञ्चिन्त्योत्कर्षणं वा ।।६।। यदन्धकारव्यवस्थितस्य द्रव्यस्य वह्नि-प्रदीप-मण्यादिना भित्त्यपनयनेन वा बहिनिष्कास्य द्रव्यधारणेन वा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534