Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४८१, ४८२ - एषणासमितेः स्वरूपम् ।। आदानसमितेः स्वरूपम् ।।
४४७
अप्सरःसमूहनिबिडप्रेमप्रपञ्चपल्लवितानि । किल यद्यपि दिव्यसुखेषु पञ्चप्रकारोऽपि विषयोपभोगः स्वाधीनस्तथापि वैषयिकसुखसर्वस्वभूताः कामिन्यः इत्यप्सरोग्रहणम् । उक्तं च -
अन्योन्यं विषयाणां गुरुलघुभावो न कोऽपि यदि नाम ।
अन्यैव तदपि रेखा गीतीनां कामिनीनां च ।।१।। अत एव स्वल्पसुखहेतोरेवंविधसुखोत्कर्षवैमुख्यमाकलयन्तः कथं न ते मुग्धा इति ।।४८०।। एवं च यद् विधेयं तदाह -
तम्हा सइ संथरणे चइज पिंडेसणं न मणसा वि ।
जाए य असंथरणे जइज जयणाइ जहजुग्गं ।।४८१।। तस्मादेवं सति । सति विद्यमाने संस्तरणे समयभाषया निर्वाहे मुनिरास्तां वाक्कायाभ्यां, मनसाऽपि चेतसाऽपि पिण्डैषणां न त्यजेन्नावगणयेत् । कान्तारदुर्गरोधविषमाध्वदुर्भिक्षग्लानत्वादिकारणैश्चासंस्तरणे जाते यथायोग्यं गुर्वादिविचारणया यतनया समयोपदर्शितापवादासेवनरूपया यतेत यत्न विदध्याद् गीतार्थ इति ।।४८१।। आदानसमितिमाह -
दटुं दिट्ठीइ, पमजिऊण रयहरणमाइणा सम्म । आयाणसमिइसमिया गिण्हंति मुयंति उवगरणं ।।४८२।।
गाथा-४८२ 1. तुला - आदाननिक्षेपसमितिमाह - आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृह्णीयानिक्षिपेद्वा यत् साऽऽदानसमितिः स्मृता ।। - योग शा. १/३९ ।।
आसनं विष्टरः, आदिशब्दाद् वस्त्र-पात्र-फलक-दण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा, प्रतिलिख्य रजोहरणादिना, यत्नत इत्युपयोगपूर्वकम्, अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह - "पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं वाएइ सयं पडिच्छइ वा ।।१।। पुढवी-आउक्काए-तेऊ-वाऊ-वणस्सइ-तसाणं । पडिलेहणापमत्तो छण्हं पि विराहगो भणिओ ।।२।।"
[ओघनि० २७३-४] यद् गृह्णीयादाददीत निक्षिपेत् स्थापयेत् संवीक्षित-प्रतिलिखितभूमौ सा आदाननिक्षेपसमितिः । भीमो भीमसेन इति न्यायादादानसमितिः ।।
__- योग शा० १/३९ ।। टीका० ।। 2. छाया - प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा ।।१।। पृथिव्यप्काय-तेजो-वायु-वनस्पति-त्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भणितः ।।२।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534