Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 499
________________ हितोपदेशः । गाथा- ४८६, ४८७- कायगुप्तेः स्वरूपम् ।। समितिगुप्तीनाम् उपसंहारः वीरवज्रभद्रदण्डपद्मासनादिभिग्रष्मशिशिरमसकाद्युपद्रवपीडामवगणय्य सकामनिर्ज रार्थमातापनापरा मुनयस्तनुगुप्ता इत्येका कायगुप्तिः । यदाह आयावयंति गिम्हेसु हेमंतेसु अवाउडा । वासासु पडिलीणा संजया सुसमाहिया । । १ । । [ दशवैकालिक अ. ३, गा. १२] द्वितीयामाह - ‘अपमत्ता' विशेषासनातापनादिविरहेऽप्यपरापरसंयमयोगव्यापृताश्चेदप्रमत्तास्तदा नियतं कायगुप्ता एवेति ।। ४८६ ।। समितिगुप्तीरुपसंहरन्नाह - ४५४ इय समिइगुत्तिवज्जुंगियाइ संवम्मिओ सुमुणिसुहडो । न पमायभिल्लभल्लीसंपाए खुभइ मणयं पि ।।४८७ ।। इति पूर्वोक्तप्रकारेण 'समितिगुत्तिवज्जुंगियाइ' संवर्म्मितः कृतसन्नाहः । सुमुनिरेव सुभटः । सन्निपातः, अपिशब्दात्तदभावेऽपि, मुनेः साधोः कायः शरीरम्, तस्योत्सर्गस्त्यागस्तत्र निरपेक्षतालक्षणः, तं जुपते, तस्य कायोत्सर्गजुषो यः स्थिरीभावो निश्चलता योगनिरोधं कुर्वतः सर्वथा शरीरचेष्टापरिहारो वा यः सा •योग शा० १ / ४३ टीका० ।। ।। द्वितीयामाह - योग शा० १ / ४४ ।। शयना - SSसन - निक्षेपाऽऽदान - चङ्क्रमणेषु यः । स्थाने च चेष्टानियमः कायगुप्तिस्तु साऽपरा ।। शयनमागमोक्तो निद्राकालः, स च रात्रावेव, न दिवा, अन्यत्र ग्लाना ऽध्वश्रान्तवृद्धादेः । तत्रापि प्रथमयामेऽतिक्रान्ते गुरूनापृच्छ्य प्रमाणयुक्तायां वसतौ संवीक्ष्य प्रमृज्य च भूमिं संहत्यास्तीर्य च संस्तरणपट्टकद्वयमूर्ध्वमधश्च कायं सपादं मुखवस्त्रिकारजोहरणाभ्यां प्रमृज्यानुज्ञापितसंस्तारकावस्थानः पठितपञ्चनमस्कारसामायिकसूत्रः कृतवामबाहूपधान आकुञ्चितजानुकः कुक्कुटीवद् वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसन्दंशकः उद्वर्त्तनकाले च मुखवस्त्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत । प्रमाणयुक्ता तु वसतिर्हस्तत्रयप्रमिते भूप्रदेशे प्रत्येकं सभाजनानां साधूनां यत्रावस्थानं सकलावकाशपूरणं च स्यात् । आसनमुपवेशनं तद्यत्र प्रदेशे चिकीर्षितं तं चक्षुषा निरीक्ष्य प्रमृज्य च रजोहरणेन बहिर्निषद्यामास्तीर्योपविशेत्, उपविष्टोऽप्याकुञ्चनप्रसारणादि तथैव कुर्व्वीत, वर्षादिषु च वृषीपीठादिषूक्तयैव सामाचार्योपविशेत् । निक्षेपाऽऽदाने च दण्डाद्युपकरणविषये, ते अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये । चङ्क्रमणं गमनम्, तदप्यावश्यकप्रयोजनवतः साधोः पुरस्ताद्युगमात्रप्रदेशसन्निवेशितदृष्टेरप्रमत्तस्य त्रस-स्थावरभूतानि संरक्षतोऽत्वरया पदन्यासमाचरतः प्रशस्तम् । स्थानमूर्ध्वस्थितिलक्षणमवष्टम्भादि च प्रत्यवेक्षितप्रमार्जितप्रदेशविषयम् । एतेषु चेष्टानियमः स्वच्छन्दचेष्टापरिहारो यः सा अपरा द्वितीया कायगुप्तिरिति ।। योग शा० १/४४ टीका० ।। Jain Education International 2010_02 - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534