________________
हितोपदेशः । गाथा- ४८६, ४८७- कायगुप्तेः स्वरूपम् ।। समितिगुप्तीनाम् उपसंहारः
वीरवज्रभद्रदण्डपद्मासनादिभिग्रष्मशिशिरमसकाद्युपद्रवपीडामवगणय्य सकामनिर्ज
रार्थमातापनापरा मुनयस्तनुगुप्ता इत्येका कायगुप्तिः । यदाह
आयावयंति गिम्हेसु हेमंतेसु अवाउडा ।
वासासु पडिलीणा संजया सुसमाहिया । । १ । । [ दशवैकालिक अ. ३, गा. १२] द्वितीयामाह - ‘अपमत्ता' विशेषासनातापनादिविरहेऽप्यपरापरसंयमयोगव्यापृताश्चेदप्रमत्तास्तदा नियतं कायगुप्ता एवेति ।। ४८६ ।।
समितिगुप्तीरुपसंहरन्नाह -
४५४
इय समिइगुत्तिवज्जुंगियाइ संवम्मिओ सुमुणिसुहडो ।
न पमायभिल्लभल्लीसंपाए खुभइ मणयं पि ।।४८७ ।।
इति पूर्वोक्तप्रकारेण 'समितिगुत्तिवज्जुंगियाइ' संवर्म्मितः कृतसन्नाहः । सुमुनिरेव सुभटः । सन्निपातः, अपिशब्दात्तदभावेऽपि, मुनेः साधोः कायः शरीरम्, तस्योत्सर्गस्त्यागस्तत्र निरपेक्षतालक्षणः, तं जुपते, तस्य कायोत्सर्गजुषो यः स्थिरीभावो निश्चलता योगनिरोधं कुर्वतः सर्वथा शरीरचेष्टापरिहारो वा यः सा •योग शा० १ / ४३ टीका० ।।
।। द्वितीयामाह -
योग शा० १ / ४४ ।।
शयना - SSसन - निक्षेपाऽऽदान - चङ्क्रमणेषु यः । स्थाने च चेष्टानियमः कायगुप्तिस्तु साऽपरा ।। शयनमागमोक्तो निद्राकालः, स च रात्रावेव, न दिवा, अन्यत्र ग्लाना ऽध्वश्रान्तवृद्धादेः । तत्रापि प्रथमयामेऽतिक्रान्ते गुरूनापृच्छ्य प्रमाणयुक्तायां वसतौ संवीक्ष्य प्रमृज्य च भूमिं संहत्यास्तीर्य च संस्तरणपट्टकद्वयमूर्ध्वमधश्च कायं सपादं मुखवस्त्रिकारजोहरणाभ्यां प्रमृज्यानुज्ञापितसंस्तारकावस्थानः पठितपञ्चनमस्कारसामायिकसूत्रः कृतवामबाहूपधान आकुञ्चितजानुकः कुक्कुटीवद् वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसन्दंशकः उद्वर्त्तनकाले च मुखवस्त्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत । प्रमाणयुक्ता तु वसतिर्हस्तत्रयप्रमिते भूप्रदेशे प्रत्येकं सभाजनानां साधूनां यत्रावस्थानं सकलावकाशपूरणं च स्यात् । आसनमुपवेशनं तद्यत्र प्रदेशे चिकीर्षितं तं चक्षुषा निरीक्ष्य प्रमृज्य च रजोहरणेन बहिर्निषद्यामास्तीर्योपविशेत्, उपविष्टोऽप्याकुञ्चनप्रसारणादि तथैव कुर्व्वीत, वर्षादिषु च वृषीपीठादिषूक्तयैव सामाचार्योपविशेत् । निक्षेपाऽऽदाने च दण्डाद्युपकरणविषये, ते अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये । चङ्क्रमणं गमनम्, तदप्यावश्यकप्रयोजनवतः साधोः पुरस्ताद्युगमात्रप्रदेशसन्निवेशितदृष्टेरप्रमत्तस्य त्रस-स्थावरभूतानि संरक्षतोऽत्वरया पदन्यासमाचरतः प्रशस्तम् । स्थानमूर्ध्वस्थितिलक्षणमवष्टम्भादि च प्रत्यवेक्षितप्रमार्जितप्रदेशविषयम् । एतेषु चेष्टानियमः स्वच्छन्दचेष्टापरिहारो यः सा अपरा द्वितीया कायगुप्तिरिति ।। योग शा० १/४४ टीका० ।।
Jain Education International 2010_02
-
For Private & Personal Use Only
www.jainelibrary.org