________________
हितोपदेशः । गाथा-४८८, ४८९, ४९०, ४९१ - प्रमादवैशसम् ।। कषायप्रसरं निरुन्ध्यात्
४५५
प्रमाद एवातर्कितसम्पातेन शीलाङ्गसर्वस्वसंयमप्राणहरणे क्षमत्वेन भिल्ल इव भिल्लस्तस्यापरापरप्रमादस्थानान्येव भल्लयस्तासां सम्पाते मनागपि न क्षुभ्यति । समुचिता च निबिडवर्मसंवर्मितस्य सुभटस्य भल्लीनिपाते निर्भयता ।।४८७।। तत्र प्रमादोपनिपाते निरवधानैरवस्थेयमित्युपदर्शयन्नाह -
कायब्बो य पमाओ मुणीहिं सबप्पणा हयपयावो ।
एसो हु लद्धपसरो, कं न विलंघेइ जं भणियं ।।४८८।। मुनिभिर्मुमुक्षुभिरयं प्रमादः सर्वात्मना सर्वबलेन हतप्रतापः कर्त्तव्य एव । अथ किमित्यस्योपरागात् संरम्भ इति चेदाह - हुरवधारणे । एष प्रमादः प्राप्तप्रसरः कं नाम गुणगौरवाढ्यमपि लीलयैव न विलङ्घयति । यद् यस्माद् भणितमेतदेवास्मदर्च्यचरणैः कुलकेषु ।।४८८।।
आहारगा वि मणनाणिणो वि सव्वोवसंतमोहा वि ।।
हुंति पमायपरवसा, तदणंतरमेव चउगइया ।।४८९।। [ ] आहारका: आहारकशरीरलब्धिसम्पन्नाः । मनोज्ञानिनो ऋजुरूपे मनःपर्यायज्ञानशालिनः । सर्वोपशान्तमोहाख्यमेकादशं गुणस्थानकं समारूढाः । अतस्तावदासतां सामायिकादियतयः । एतेऽपि पूर्वोदिताः प्रमादपरवशास्तदनन्तरमेव तस्मादेव भवादनन्तरं चतुर्गतिकाः चतसृष्वपि गतिषु संसरणप्रवणाः सम्पद्यन्त इत्यहो प्रमादवैशसम् ।।४८९।। अथ कथमनवद्यसंयमयोगोधुक्तैर्मुनिभिर्विहन्यमानस्य प्रमादस्योदयसम्भव इत्याह -
निहणिजुतो वि इमो, संजमजोगुजएहिं साहूहिं ।
उढेइ पुणो लद्धं हत्थालंबं कसायाणं ।।४९०।। अयं च पञ्चप्रकारो अष्टप्रकारो वा प्रमादः संयमयोगोधुक्तैर्यतिभिर्निहन्यमानोऽपि न किञ्चित् क्रियमाणोऽपि पुनः पुनरुत्तिष्ठति । किं कृत्वा ? कषायाणां वक्ष्यमाणानां हस्तालम्बमवष्टम्भं लब्ध्वा ।।४९०।। एवं च यद् विधेयं तदाह -
तम्हा कसायपसरं रंभिज मणे मणं पि नणु एए । चिरकालविढत्तं पि हु, चरित्तवित्तं हरंति जओ ।।४९१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org