________________
४५६
हितोपदेशः । गाथा-४९२, ४९३ - कषायस्य स्वरूपम् ।। कषायाणां दुर्विपाकाः ।।
तस्मादेवं सति प्रमादोपष्टम्भसंरम्भकारिणां कषायाणामेव प्रसरं प्रसङ्गे मुनिर्मनसि मनागपि स्तोकमपि निरुन्ध्यात् । किमित्याह - यद् यस्मादेते सम्परायाचिरकालार्जितमपि यतीनां चरित्रवित्तं संयमधनं हरन्ति ।।४९१।। कथमिदमवसीयत इति चेदत्रैवागमिकनिदर्शनमाह -
जं अजियं चरित्तं देसूणाए वि पुवकोडीए ।
तं पि कसाइयमित्तो हारेइ मुणी मुहुत्तेण ।।४९२।। [सम्बोधसित्तरी गा. ६८] यत् किलार्जितमुपात्तं चरित्रं चरणं देशोनया वर्षाष्टकन्यूनया पूर्वाणां कोट्या । तदपि तावन्मानं कषायितमात्रः स्वल्पोदीर्णसम्परायोऽपि मुनिर्मुहूर्तपरिमितिनाऽपि समयेन हारयतीत्यहो ! सम्परायदौरात्म्यमिति । इह च जिनसमये क्रोधमानमायालोभाख्याश्चत्वारः कषायाः । कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा कषः संसार: कर्म वा तस्य आया लाभाः प्राप्तय इति व्युत्पत्तेः । ते च संज्वलन-प्रत्याख्यानावरण - अप्रत्याख्यानावरण - अनन्तानुबन्धिभेदात् प्रत्येक चतुर्विधाः । यथाक्रमं च पक्ष-चतुर्मास-संवत्सर - जन्मावधयः । वीतरागत्व-यतित्व-श्राद्धत्वसम्यग्दृष्टित्वघातिनः । देवत्व-मनुष्यत्व-तिर्यक्त्व-नारकत्वप्रदायिनश्चेति । एतेषां संज्वलनादिभेदानां चतुर्णां कषायाणां स्पष्टदृष्टान्तकथनेन स्वयं पूर्वसूरिभिरेवमभिधीयते । तथाहि -
जलरेणुपुढविपव्वयराइसरिसो चउबिहो कोहो । तिणिसलयाकट्ठट्ठिअसेलत्थंभोवमो माणो ।।१।। मायावलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा ।
लोहो हलिदखंजणकद्दमकिमिरागसारिच्छो ।।२।। [कर्मवि. गा. १९-२०] ।।४९२।। एते च सर्वे दुर्विपाका एवेति दर्शयन्नाह -
संजलणा वि हु एए नयंति निहणं चरित्तमहखायं । ___ अन्ने पुणो पुणब्भवतरूण सिचंति मूलाई ।।४९३।। संज्वलना अपि प्रथमावस्थास्थिता अप्येते क्रोधादयो यथाख्यातं विमलकेवलालोकगाथा-४९३ 1. एतदुक्तं भवति - अनन्तानुबन्धिनः कषायाः सम्यक्त्वघातकाः । यदाहुः श्रीभद्रबाहुस्वामिपादा: - पढमिल्ल्याण उदए, नियमा संजोयणा कसायाणं ।
सम्मइंसणलंभं, भवसिद्धीया वि न लहंति ।। - आ. नि. गा. १०८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org