________________
हितोपदेशः । गाथा-४९४, ४९५ - क्रोधकषायस्य स्वरूपम् ।।
सम्प्राप्तिहेतुं चारित्रं निधनं विनाशं नयन्ति । तदावरणरूपत्वात्तेषाम् । अन्ये प्रत्याख्यानावरणादयः पुनः सम्यगनिगृहीताः पुनः पुनर्भूयते समुत्पद्यते सकर्मकैः प्राणिभिरस्मिन्निति पुनर्भवः संसारः स एव तरुस्तस्य मूलानि मिथ्यात्वादीनि सिञ्चन्ति पुष्टिं नयन्ति ।। यदाह -
कोहो य माणो य अणिग्गहीया माया य लोभो य पवड्डमाणा । चत्तारि एए कसिणा कसाया सिंचंति मूलाई पुणब्भवस्स ।।१।। [दशवैकालिक अध्य० ८ गा. ४०]
।।४९३।। साम्प्रतं यथाक्रमममीषां विपाकं व्याचिख्यासुरादौ क्रोधस्याह -
कोहो पीइलयाए पविसंपाओ व्व निम्वियारत्तं ।
पयडइ पडुपत्राण वि अनाणाण व वियंभंतो ।।४९४ ।। क्रोधः क्रोधाख्यः प्रथमः कषायः प्रीतिलतायाः स्नेहप्ररोहस्य पविसम्पातप्रतिमो विजृम्भमाण: पटुप्रज्ञानां विपुलशास्त्रार्थरहस्यनिस्यन्दकन्दलितचेतसामज्ञानानामिव पुंस्यश्च[श्व]तामिव निर्विचारत्वं प्रकटयति, समुचितं च विचारविगलनं क्रोधान्धानाम् । यतः -
विचारः प्राणिनां युक्तं क्रोधोद्बोधेन हीयते ।
विचारदर्शिता बुद्धिः सा च क्रुद्धस्य नश्यति ।।१।।४९४ ।। किञ्च -
चिंतइ अचिंतणिजं वयइ य ज सव्वह अवयणिजं ।
कुणइ अकिपि नरो रोसपसत्तो विवित्तो वि ।।४९५ ।। अप्रत्याख्यानावरणा देशविरतर्घातकाः, न सम्यक्त्वस्येत्याल्लब्धम् । यदाहुः पूज्यपादा: - बीइयकसायाणुदये, अपञ्चक्खाणनामधिज्जाणं । सम्मइंसणलंभ, विरयाविरयं न उलहंति ।। - आ. नि. गा.१०९ ।। प्रत्याख्यानावरणास्तु सर्वविरतर्घातकाः, सामर्थ्यान्न देशविरतेः । उक्तं च - तइयकसायाणुदए, पञ्चक्खाणावरणनामधिज्जाणं । देसिक्कदेसविरई, चरित्तलंभंन उलहंति ।। - आ. नि. गा. ११०।। संज्वलनाः पुनर्यथाख्यातचारित्रस्य घातकाः, न सामान्यतः सर्वविरतेः । उक्तं च श्रीमदाराध्यपादैः - मूलगुणाणं लंभं, न लहइ मूलगुणघाइणं उदए । संजलणाणं उदए, न लहइ चरणं अहक्खायं ।।
- आ. नि. गा. १११ ।। इति कर्मवि. प्र. क. गा. १८ स्वो. टीकायाम् ।। गाथा-४९४ 1. तुला - तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् ।
दुर्गतर्वर्तनी क्रोधः क्रोधो शमसुखार्गला ।। - यो. शा. ४/९ ।। क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ।। - प्रशमरति गा. २६ ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org