________________
४५८
हितोपदेशः । गाथा-४९६, ४९७ - क्रोधकषायस्य स्वरूपम् ।।
यदेकान्ततः सतां चिन्तयितुमपि नोचितं, तदपि पितृ-मातृ-गुरु-स्वामिविनाशादिकं · चिन्तयति ध्यायति । यञ्च शिष्टानां सर्वथा अवचनीयं तदप्यश्लीलासभ्यं हिंसानुबन्धि श्रुतमप्यु
द्वेगावेगजनकं वदति । यच्च दृश्यमानमपि कृपावतां हृदुत्कम्पसम्पादनप्रवणं तदपि ब्रह्मस्त्रीभ्रूणगोघातादिकमसकृत् करोति । कः ? इत्याह - नरः पुमान् । किम्भूतो ? रोषप्रसक्तो दुर्द्धरक्रोधाध्मातः । यथैवमविचारो नृपशुभविष्यति । नेत्याह - विविक्तः । 'स्फुरदुरुविवेकपरिपाको कोपादित्यहो क्रोधस्य विधेयत्वम्' ।।४९५ ।। एवं च यद् विधेयं तदाह -
ता खंतिखग्गवग्गिरकरेहिं धीरेहिं साहुसुहडेहिं ।
निहणेयव्वो कोहो विवक्खजोहु ब्व दुब्बिसहो ।।४९६।। तस्मादेवं सति क्षान्तिखड्गवल्गत्करैः क्षमाकृपाणप्रेखोलत्पाणिभिः धीरैर्लोकोत्तरधैर्यधारिभिः साधुसुभटैरनगारप्रवरैरयं क्रोधः सर्वात्मना निहन्तव्यः । किम्भूतो ? दुर्विसहः । प्राप्तावकाशः सन् सोढुमशक्यः । क इव ? विपक्षयोध इव । प्रतिभटसुभट इव । सोऽप्येवमेव विजीयते ।।४९६।।
ननु यद्येवं सत्यं तद् दुर्द्धरोऽयं क्रोधस्तत् कथममुष्य विक्षेपे क्षमेयमेकाकिनी क्षमा स्यादिति चेत् तदाह -
उयह खमाबलमतुलं चलंतभडकोडिपरिवुडा वि पुरा ।
जे भीया ते विहिया खमाइ एगागिणो अभया ।।४९७।। न नाम क्षमेयमेकाकिन्यबलेत्यवज्ञेया । यतः ‘उयह' पश्यत क्षमाया अतुलमनन्यतुल्यं बलं सामर्थ्य । किमित्याह - ये किलाखण्डषट्खण्डक्षोणीमण्डलाखण्डलत्वमुद्वहतस्तत एव विष्वक् चलद्भटकोटिपरिवृताः षोडशयक्षसहस्रविहितसन्निधानाः स्वयमपि पुरुषकोटीद्वयबलशालिनस्तेऽपि पूर्वापराद्धेभ्यो विरोधिभ्यः सततं पुराऽस्य भयमबिभरुः । ते तथाविधशुभसम्भारसुलभवासनोद्भूतप्रभूतज्ञानगर्भवैराग्यवशात् पटप्रान्तविश्रान्ततृणवदवगणय्य साम्राज्यमङ्गीकृतसर्वसङ्गपरित्यागास्तत एवैकाकिन: शून्यारण्यगिरिगह्वरादिषु नक्तन्दिनवासिनोऽप्येकयैव क्षमया गाथा-४९६ 1. तुला - क्रोधवतेस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया क्षमेकैव संयमारामसारणिः ।।।
- यो. शा. ४/११ ।।
____ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org