________________
हितोपदेशः । गाथा-४८५, ४८६ - वाग्गुप्तेः स्वरूपम् ।। कायगुप्तेः स्वरूपम् ।।
४५३
एवंविधा मुनयो वाग्गुप्ता भवन्ति । किं कुर्वाणा: ? पञ्चधा पञ्चप्रकारं स्वाध्यायं प्रयुञ्जानाः । तद्यथा - वाचनारूपं प्रश्नरूपं परावर्तनरूपमनुचिन्तनरूपं धर्मकथारूपं च । तत्र वाचना विनेयाय निर्जरायै सूत्रार्थदानम् । शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्नः । परावर्त्तनं तु पूर्वाधीतस्यैव सूत्रादेरविस्मरणं निर्जरानिमित्तमभ्यासकरणम् । अनुचिन्तनं मनसैवाविस्मरणनिमित्तं सूत्राद्यनुस्मरणम् । धर्मकथा स्वपरयोरनुग्रहाय यथावस्थितस्याहद्देशितस्यार्थस्यैहिकपूजासत्कारश्लोकाद्यनभिलाषेणैकान्ततो निर्जरार्थं प्रथनं । भवति चैवं कथकस्यावश्यं स्वार्थसिद्धिः । उक्तं च -
न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् ।
ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ।।१॥ [ ] तदेवंविधं पञ्चधा स्वाध्यायं यथायोग्यं स्थाना[न]तिक्रमेण स्त्रीभक्तचौरजनपदनरेन्द्रादिप्रतिबद्धविकथापरिहारेणमुनयः प्रयुञ्जानावाग्गुप्ताभवन्तीत्येकावाग्गुप्तिः । द्वितीयामाह-'अहवकयमोणा' अथवेतिभेदप्रदर्शने ।अथवा संज्ञादिपरिहारपुरस्सरमेकान्ततः कृतमौनावाग्गुप्ताः ।।४८५।। कायगुप्तिमाह -
वीरासणाइएहिं अगणंता गिम्हसिसिरमसगाई । आयाविंता मुणिणो अपमत्ता हुंति तणुगुत्ता ।।४८६।।
___ संज्ञा मुख-नयन-भ्रूविकाराङ्गुल्याच्छोटनादिका अर्थसूचिकाश्चेष्टाः, आदिशब्दाल्लोष्टक्षेपोलीभाव-कासित-हुङ्कतादीनि गृह्यन्ते । संज्ञादीनां यः परिहारस्तेन यन्मौनमभाषणं तस्यावलम्बनमभिग्रहः । संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका वाग्गुप्तिः । वाचन-प्रच्छन-पृष्टव्याकरणादिषु लोकाऽऽगमाविरोधेन मुखवत्रिका-च्छादितवक्त्रस्य भाषमाणस्यापि वाग्वृत्तेः संवृतिर्वाग्विनियन्त्रणं द्वितीया वाग्गुप्तिः । आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च रूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः । यदाहुः -
“समिओ नियमा गुत्तो गुत्तो समियत्तणम्मि भयणिज्जो । । कुसलवइमुईरंतो जं वइगुत्तो वि समिओ वि" ।। - बृहत्कल्प भा० ४४५१, निशीथभा० ३७, योग शा० १/४२ टीका ।। गाथा-४८६ 1. तुला - अथ कायगुप्तिः - सा च द्विधा-चेष्टानिवृत्तिलक्षणा, यथासूत्रं चेष्टानियमलक्षणा च । तत्राद्यामाह -
उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य कायगुप्तिर्निगद्यते ।। - योग शा० १/४३ ।। उपसर्गा देव-मानुष-तिर्यकृता उपद्रवाः, उपलक्षणत्वात् क्षुत्पिपासादयः परीषहा अपि गृह्यन्ते, तेषां प्रसङ्गः
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org