________________
हितोपदेशः । गाथा- ४८४, ४८५ - मनोगुप्तेः स्वरूपम् ।। वाग्गुप्तेः स्वरूपम् ।।
विचारोऽर्थव्यञ्जनयोगसङ्क्रमः । अर्थो द्रव्यं व्यञ्जनं शब्दः । योगो मनःप्रभृति । एतद्भेदेन सविचारमर्थाद् व्यञ्जनं सङ्क्रामतीति प्रथमं शुक्लम् । एकत्ववितर्कमविचारम् । एकत्वेनाभेदेन वितर्कोऽर्थरूपो व्यञ्जनरूपो वा यस्य तत्तथा । तदेवंविधं द्वितीयं शुक्लम् । सूक्ष्मक्रियानिवृत्ति तृतीयं शुक्लम् । तच्च केवलिनो निर्वाणगमनकाले मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति । काययोगस्तूच्छ्वासनिश्वासादिलक्षणः सूक्ष्म एवास्य विज्ञेयः । व्यवच्छिन्नक्रियं तु चतुर्थं शुक्लम् । तच्च शैलेशीगतस्य केवलिनः सर्वात्मनैव निरुद्धसकलयोगस्य शैलेशवन्निष्प्रकम्पस्य भवति । एवंविधयोः पूर्वोपवर्णितध्यानद्वयापेक्षया वरयोः प्रधानतमयोर्धर्म्मशुक्लध्यानयोर्मनसि यः सङ्क्रमः सा विमुक्ताशेषकुविकल्पकल्पनाजालस्यात्मारामस्य मुनेर्मनोगुप्तिरिति । । ४८४ ।। 'वाग्गुप्तिमाह
I
४५२
विगहापरिहारेणं सज्झायं पंचहा जहाजोगं ।
जुंजंता वयगुत्ता हुंति मुणी अहव कयमोणा ॥। ४८५ ।।
सङ्क्रान्तिः, व्यञ्जनादर्थसङ्क्रान्तिः, मनोयोगात् काययोगसङ्क्रान्ति-र्वाग्योगसङ्क्रान्तिर्वा । एवं काययोगान्मनोयोगं वाग्योगं वा सङ्क्रामति । तथा वाग्योगान्मनोयोगं काययोगं वेति । यत्र सङ्क्रामति तत्रैव निरोधो ध्यानमिति ।
एकस्य भाव एकत्वं, एकत्वगतो वितर्क एकत्ववितर्कः । एक एव योगस्त्रयाणामन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तमुत्पादव्ययध्रौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीप-वन्निष्प्रकम्पं, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्कमविचारम् ।। - तत्त्वा० सि० टीका० ९/३९ ।। सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम्, तच्च योगनिरोधकाले भवति । वेद्य-नाम- गोत्रकर्मणां भवधारणायुष्काद-धिकानां समुद्घातसामर्थ्यादचिन्त्यैश्वर्यशक्तियोगादायुष्कसमीकृतानां मनोवाक्काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्तकमनोऽसङ्ख्येयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावमा व्युपरतकियानिवृत्तिध्यानावाप्तेः ।
त्रसबादरपर्याप्तादेयसुभगकीर्तिमनुजनाम्नि पञ्चेन्द्रियतामन्यतरञ्च वेद्यम् उच्चैस्तथा गौत्रम् । मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रकृतीः वेदयति तु तीर्थकरो द्वादशसहतीर्थकृत्त्वेन सततो देहत्रयमोक्षार्थमनिवर्ति सर्वगतमुपयाति समुच्छिन्नक्रियमतस्कं परं ध्यानं व्युपरतक्रियमनिवर्तीत्यर्थः । तद्धि तावन्निवर्तते यावन्न मुक्तः ।।
- तत्त्वा० सि० टीका० ९ / ४१ ।। अयोगानामिति शैलेश्यवस्थानां हस्वाक्षरपञ्चकोच्चारणसमकालानां मनो-वाक्- काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति ।। - तत्त्वा० सि० टीका० ९/४३ ।। शुक्लध्यानस्य प्रथमभेदस्वरूपं दृश्यतां श्लो० ६ / ६५ । द्वितीयभेदस्वरूपं दृश्यतां श्लो० ७४/७९ । तृतीयभेदस्वरूपं दृश्यतां श्लो० ९४, ९५ । चतुर्थभेदस्वरूपं दृश्यतां श्लो० १०४/१०५ गुणस्थानकक्रमारोहमध्ये | गाथा- ४८५ 1. तुला - वाग्गुप्तिमाह संज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् । वृत्तेः संवृतिर्वा या सा वाग्गुप्तिरिहोच्यते ।। योग शा० १ / ४२ ।।
-
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_02
-