________________
हितोपदेशः । गाथा-४८४ - मनोगुप्तेः स्वरूपम् ।।
४५१
क्षीणाशेषरागद्वेषमोहस्य भगवतोऽर्हतः शङ्कादिरहितं द्वादशाङ्गागमरूपं वचनमाज्ञा । तस्या विचयो गवेषणं गुणवत्त्वेन निदोषत्वेन उपादेयत्वेन चार्थनिर्णयः । तथा अपाया आश्रवविकथागौरवपरीषहासमितत्वागुप्तत्वादयः । तेषां विचयो नारकतिर्यग्नरामरजन्मसु विविधवेदनोत्पादकत्वम्। अशुभं[शुभं] च कर्म द्वयोः कोट्योर्वर्त्तते । तस्य पाको विपाकोऽनुभावो रस इत्यर्थः । तस्यानुचिन्तनम् । अशुभानां कर्मांशानामयं विपाकः । शुभानां चायमिति संसारभाजां जीवानां तदन्वेषणं विपाकविचयः । तथा धर्माधर्मो गतिस्थित्यात्मको लोकाकाशप्रमाणौ । आकाशं तु लोकालोकव्यापकमवकाशदम् । लोकश्चोर्ध्वाधस्तिर्यक्प: । पुद्गलद्रव्यं सचित्ताचित्ताणुस्कन्धादिभेदादनेकप्रकारम् । जीवोऽपि शरीरादिभेदेनानेकाकारः, समुद्धातकाले च सकललोकाकारः । कालोऽपि यदा क्रियामात्रः द्रव्यपर्यायस्तदा द्रव्याकार एव । यदा तु स्वतन्त्रं कालद्रव्यं तदैक: समयोऽर्द्धतृतीयद्वीपसमुद्राकृतिरित्येष संस्थानविचयः । एषामाज्ञाविचयादीनां सर्वज्ञोपज्ञतयाऽवितथत्वेनानुचिन्तनं धर्मध्यानम् ।
शुक्लध्यानमपि चतुर्विधम् - पृथक्त्ववितर्कसविचारम् । सह विचारेण वर्त्तते इति सविचारम् । स्मृतिसमन्वाहारतो धर्म्यं भवति ध्यानमिति ।।
संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते -
संस्थानम् आकारविशेषो लोकस्य द्रव्याणां च । लोकस्य तावत् तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं स्थालमिव च तिर्यग् लोकमूर्ध्वमधोभल्लकसमुद्गम् । तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः । असङ्ख्येया द्वीपसमुद्रावलयाकृतयो धर्मा-ऽधर्मा-ऽऽकाश-पुद्गल-जीवास्तिकायात्मका अनादिनिधनसन्निवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च । तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद्, अरूपं कर्तारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्तौ विभागहीनाकारम् । ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रैवेयकाणि पञ्च महाविमानानि मुक्ताधिवासश्च । अधोलोकोऽपि भवनवासिदेवानारकाधिवसतिः । धर्माऽधर्मावपि लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, पुद्गलद्रव्यं शरीरादिकार्य, इत्थं संस्थानस्वभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते ।
- तत्त्वा. सि. टीका ९/३७ ।। 5. तुला - पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्यपरतक्रियानिवर्तीनि ।। - तत्त्वा० ९/४२ ।।
उच्यते - पृथग् अयुतकं भेदः तद्भावः पृथक्त्वम्-अनेकत्वं तेन सह गतो वितर्कः, पृथक्त्वमेव वा वितर्क: सहगतं वितर्कपुरोगं पृथक्त्ववितर्कम् । तञ्च परमाणु-जीवादावेकद्रव्ये उत्पादव्ययध्रौव्यादिपर्यायानेकतयाऽपि तत्त्वं तत् पृथक्त्वं पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितर्कसहचरितं सविचारं च यत् तत् पृथक्त्ववितर्कं सविचारं तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति - त्र्येककाययोगायोगानां ।। वितर्कः श्रुतं ।। विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ।। (अ. ९ सू. ४३-४६-४७) । पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जनयोगान्तरप्राप्ति:-गमनं विचारः । अर्थाद् व्यञ्जन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org