________________
४५०
हितोपदेशः । गाथा-४८४ - मनोगुप्ते: स्वरूपम् ।।
रौद्रम् । तथा पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानात्मकं मृषानुबन्धि द्वितीयम् । तथा तीव्रक्रोधलोभाकुलस्य भूतोपमर्दनपरद्रव्यादिहरणात्मकं स्तेयानुबन्धि तृतीयम् । तथा शब्दादिविषयधनसंरक्षणसर्वाभिशङ्कनपरोपघाताद्यात्मकं विषयसंरक्षणानुबन्धि चतुर्थम् । अत एताभ्यामपध्यानाभ्यां परित्यक्ते विरहिते चेतसि, अत एव समभावभाविते । आर्त्तरौद्रयोरेव चित्तविस्रोसिकानिमित्तत्वात् । एवंविधे तस्मिन् यः किल धर्मशुक्लध्यानयोः सङ्क्रमः । तत्राज्ञाविचय-अपायविचय-विपाकविचय-संस्थानविचयभेदाद् धर्मध्यानमपि चतुर्द्धा-तत्र
स्तनप्रयोजनमधुनोच्यते तीव्रसङ्क्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचाराहितसंस्कारस्य अपास्तपरलोका-पेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः । द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । विषयसंरक्षणार्थं चेति चतुर्थो विकल्पः । विषयाणां च संरक्षणमुक्तं परिग्रहेष्वप्राप्तनष्टेसु काङ्क्षाशोकौ प्राप्तेषु रक्षणमुपयोगे चावितृप्तिः । इत्थं च विषयसंरक्षणाहितक्रौर्यस्य म्लेच्छमलिम्लुचाग्निक्षेत्रमृद्दायादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षतः तीव्रण लोभकषायेणानुरक्तचेतसः तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दम् रौद्रं भवति ध्यानम् ।।
- तत्त्वा. सि. टीका. अ. ९/३७ ।। 4. तुला - आज्ञा-ऽपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य ।। तत्त्वा० ९/३७ ।। आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ।।
- तत्त्वा भा० ९/३७ ।। क्षीणरागद्वेषमोहाः सर्वज्ञा नाऽन्यथाव्यवस्थितमन्यथा वदन्ति भाषन्ते वाऽनृतकारणाभावात् । अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमित्याज्ञायां स्मृतिसमन्वाहारः । प्रथमं धर्मध्यानमाज्ञाविचयाख्यम् ।
अपायविचयं द्वितीयं धर्मध्यानमुच्यते - अपाया: विपदः शारीर-मानसानि दुःखानीति पर्यायास्तेषां विचयः रौद्रध्यानिन: तीव्रसंक्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्रतदनुगमाञ्च नारकगतिमूलमेतत् । कर्मजालं दुरन्तं दीर्घरात्रमपायैर्युज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायभाजो दृश्यन्ते क्लिश्यन्ते इत्यतः प्रत्यवायप्रायेऽस्मिन् संसारे ऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति ।
तृतीयं धर्मध्यानं विपाकविचयाख्यामुच्यते - विविधो विशिष्टो वा पाको विपाक: अनुभावः । अनुभावो रसानुभवः कर्मणां नरक-तिर्यङ्-मनुष्याऽमरभवेषु तस्य विचयः अनुचिन्तनं मार्गणं तदर्थितचेताः । तत्रैव स्मृति समन्वाहत्य वर्तमानो विपाकविचयाध्यायी भवति । ज्ञानावरणादिकमष्टप्रकारं कर्म-प्रकृति-स्थित्यनुभावप्रदेशभेदमष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् । तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वम् । दर्शनावरणाञ्चक्षुरादिवैकल्यं निद्राद्युद्भवश्च । असद्वेद्याद् दुःखं, सद्वद्यात् सुखानुभवः । मोहनीयाद् विपरीतग्राहिता चारित्रविनिवृत्तिश्च । आयुषोऽनेकभवप्रादुर्भावः । नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिः । गोत्रादुञ्चनीचकुलोपपत्तिः । अन्तरायादलाभ इति । इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org