________________
हितोपदेशः । गाथा-४८४ - मनोगुप्तेः स्वरूपम् ।।
४४९
एवंविधे मुनेर्मनसि धर्मशुक्लध्यानयोः सङ्क्रमो मनोगुप्तिः । कथम्भूते ? परित्यक्तातरौद्रे । तत्रार्तं चतुर्द्धा-अमनोज्ञानां शब्दादिविषयवस्तूनां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः । कथं नु नाम ममैभिर्वियोगः स्यादिति चिन्तनं प्रथमो भेदः । तथा द्यूते शीर्षादिवेदनाघातात् विप्रयोगप्रणिधानम् । कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादित्यनागताध्यवसायात् प्रतीकाराकुलत्वं च द्वितीयः । तथा इष्टानां शब्दादिविषयाणां सम्प्रयोगे तदविप्रयोगचिन्तनं । कथं ममैभिर्मनोज्ञविषयादिभिरायत्यां सम्बन्धः स्यादिति योगाभिलाषश्च तृतीयः । तथा देवेन्द्रचक्रवर्त्यादीनां स्वरूपादिगुणावभूतिप्रार्थनात्मकं । अहमनेन तपस्त्यागादिना देवेन्द्रश्चक्रवर्ती वा स्यामित्यधर्म निदानचिन्तनं चतुर्थः ।
रौद्रमपि चतुर्द्धा - तत्र सत्त्वानां वधवेधबन्धनदहनाङ्कनमारणादिहिंसानुबन्धि प्रणिधानं प्रथम धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिद्वितीया । कुशलाऽकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया । ता एतास्तिस्रोऽपि विशेषणत्रयेणाह-विमुक्तकल्पनाजालमिति, समत्वे सुप्रतिष्ठितमिति, आत्माराममिति च । एवंविधं मनो मनोगुप्तिः ।।
___ - योग शा. १/४१ टीका ।। 2. तुला - आर्तस्य प्रथमो विकल्पः । आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ।।- तत्त्वा० ९/३१ ।। अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ यः स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते १ ।।
- तत्त्वा० भा. ९/३१ ।। आर्तस्य द्वितीयो विकल्प: - वेदनायाश्च ।। - तत्त्वा. ९/३२ ।। वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति २ ।।
- तत्त्वा . भा. ९/३२ ।। आर्तस्य तृतीय विकल्प: - विपरीतमनोज्ञानाम् ।। - तत्त्वा० ९/३३ ।। मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आर्तम् ।।
- तत्त्वा० भा० ९/३३ ।। आर्तस्य चतुर्थो विकल्प: - निदानं च ।। - तत्त्वा० ९/३४ ।। कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति ।।
- तत्त्वा भा० ९/३४ ।। 3. तुला - हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ।। - तत्त्वा० ९/३६ ।। हिंसार्थमनृतवचनार्थं स्तेयार्थं विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानं तदविरतदेशविरतयोरेव भवति ।।
- तत्त्वा . भा. ९/३६ ।। “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" ।। (तत्त्वा. अ. ७, सू. ८) तञ्च सत्त्वव्यापादनोद्वन्धपरितापनताडनचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दम् । तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् । ये च जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । प्रबलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्भूतघाताभिसन्धानप्रवणमसदभिधानमनृतं तत्परोघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारः । तत्रैवं दृढप्रणिधानममृतानन्दमिति । स्तेयार्थं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org