________________
४४८
हितोपदेशः । गाथा-४८३, ४८४ - उत्सर्गसमितेः स्वरूपम् ।। मनोगुप्तेः स्वरूपम् ।।
मुनयः पात्रपीठाधुपकरणं प्रयोजनोत्पत्तौ गृह्णन्ति तत्समाप्तौ च मुञ्चन्ति स्थान एव स्थापयन्ति । किं कृत्वा ? दृष्ट्या प्रथमं दृष्ट्वा सुनिपुणं निरूप्य तदनु रजोहरणादिना सम्यगुपयोगपूर्वकं प्रमृज्य । न पुनरन्यचित्ततया । तथा हि न सम्यक् प्रतिलेखना स्यात् । उक्तं च -
पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा ।
देइ व पश्चक्खाणं वाएइ सयं पडिच्छइ वा ।।१।। पुढविआउक्काए तेउवाऊवणस्सइतसाणं ।
पडिलेहणापमत्तो छन्हं पि विराहगो भणिओ ।।२।। [ओघनियुक्ति गा. २७३-२७४] अतः सम्यगित्युक्तम् । एवं कुर्वाणाश्च मुमुक्षवो नियतमादानसमितिसमिता इति ।।४८२।। उत्सर्गसमितिमाह -
मलजलखेलाईयं सुप्पडिलेहियपमज्जियपएसे ।
जयणाइ वोसिरावणपुव्वं, निसिरंति तस्समिया ।।४८३।। मलं पुरीषं, जलमनुपयोगिपानाहारम् । खेल: श्लेष्मा । आदिशब्दादन्यदपि परिष्ठापनाह वस्रपात्रादि पूर्वोक्तयुक्त्या सुप्रतिलेखिते सुप्रमार्जिते प्रदेशे स्थण्डिले यतनया भावैर्भूत्वा व्युत्सर्जनपूर्वं यथाऽल्पोऽपि तत्प्रत्ययः पापानुबन्धो न स्यादेवं 'निसिरंति' व्युत्सृजन्ति तत्समिता उत्सर्गसमितिसमिता साधव इति ।।४८३।। एवमवसिताः समितयः । 'सम्प्रति गुप्तीनामवसरस्तास्वपि मनोगुप्तिमाह -
परिचत्तअट्टरुद्दे मणमि समभावभाविए सम्मं । वरधम्मसुक्कझाणाण संकमो होइ मणगुत्ती ।।४८४ ।।
गाथा-४८३ 1. तुला - उत्सर्गसमितिमाह -
कफ-मूत्र-मलप्रायं निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत् ।। - योग शा. १/४० ।। ___ कफ: श्लेष्मा मुख-नासिकसञ्चारी, मूत्रं प्रश्रवणम्, मलो विष्टा, प्रायग्रहणादन्यदपि परिष्ठापनायोग्यं वस्त्र-पात्रभक्त-पानादि गृह्यते । निर्जन्तुस्रसस्थावर-जन्तुरहिता स्वयं च निर्जन्तुर्या जगती तस्यास्तलं स्थण्डिलमित्यर्थः । तत्र यत्नादुपयोगपूर्वकं यदुत्सृजेत् साधुः सोत्सर्गसमितिः ।।
- योग शा. १/४० टीका ।। गाथा-४८४ 1. तुला - अथ गुप्तीनामवसरः, तत्र मनोगुप्तिमाह - विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ।। - योग शा. १/४१ ।। इह मनोगुप्तित्रिधा - आर्त्त-रौद्रध्यानानुबन्धिकल्पनाजालवियोग: प्रथमा । शास्त्रानुसारिणी परलोकसाधिका
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org