SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-४८१, ४८२ - एषणासमितेः स्वरूपम् ।। आदानसमितेः स्वरूपम् ।। ४४७ अप्सरःसमूहनिबिडप्रेमप्रपञ्चपल्लवितानि । किल यद्यपि दिव्यसुखेषु पञ्चप्रकारोऽपि विषयोपभोगः स्वाधीनस्तथापि वैषयिकसुखसर्वस्वभूताः कामिन्यः इत्यप्सरोग्रहणम् । उक्तं च - अन्योन्यं विषयाणां गुरुलघुभावो न कोऽपि यदि नाम । अन्यैव तदपि रेखा गीतीनां कामिनीनां च ।।१।। अत एव स्वल्पसुखहेतोरेवंविधसुखोत्कर्षवैमुख्यमाकलयन्तः कथं न ते मुग्धा इति ।।४८०।। एवं च यद् विधेयं तदाह - तम्हा सइ संथरणे चइज पिंडेसणं न मणसा वि । जाए य असंथरणे जइज जयणाइ जहजुग्गं ।।४८१।। तस्मादेवं सति । सति विद्यमाने संस्तरणे समयभाषया निर्वाहे मुनिरास्तां वाक्कायाभ्यां, मनसाऽपि चेतसाऽपि पिण्डैषणां न त्यजेन्नावगणयेत् । कान्तारदुर्गरोधविषमाध्वदुर्भिक्षग्लानत्वादिकारणैश्चासंस्तरणे जाते यथायोग्यं गुर्वादिविचारणया यतनया समयोपदर्शितापवादासेवनरूपया यतेत यत्न विदध्याद् गीतार्थ इति ।।४८१।। आदानसमितिमाह - दटुं दिट्ठीइ, पमजिऊण रयहरणमाइणा सम्म । आयाणसमिइसमिया गिण्हंति मुयंति उवगरणं ।।४८२।। गाथा-४८२ 1. तुला - आदाननिक्षेपसमितिमाह - आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृह्णीयानिक्षिपेद्वा यत् साऽऽदानसमितिः स्मृता ।। - योग शा. १/३९ ।। आसनं विष्टरः, आदिशब्दाद् वस्त्र-पात्र-फलक-दण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा, प्रतिलिख्य रजोहरणादिना, यत्नत इत्युपयोगपूर्वकम्, अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह - "पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं वाएइ सयं पडिच्छइ वा ।।१।। पुढवी-आउक्काए-तेऊ-वाऊ-वणस्सइ-तसाणं । पडिलेहणापमत्तो छण्हं पि विराहगो भणिओ ।।२।।" [ओघनि० २७३-४] यद् गृह्णीयादाददीत निक्षिपेत् स्थापयेत् संवीक्षित-प्रतिलिखितभूमौ सा आदाननिक्षेपसमितिः । भीमो भीमसेन इति न्यायादादानसमितिः ।। __- योग शा० १/३९ ।। टीका० ।। 2. छाया - प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा ।।१।। पृथिव्यप्काय-तेजो-वायु-वनस्पति-त्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भणितः ।।२।। ___ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy