________________
४४६
हितोपदेशः । गाथा-४७८, ४७९, ४८० - एषणासमितेः स्वरूपम् ।।
न पुनरकारणेन । अकारणानि चामूनि, यथा -
अहव न जिमिज रोगे, मोहुदए' सयणमाइउवसग्गे।
पाणिदया-तवहेउँ* अंते तणुमोयणत्थं च ।।१।। [पिण्डविशुद्धि गा. ९९] एवं च संयमदेहयात्रानिर्वाहार्थमशनाद्याददाना मुनयो नियतमेषणासमिता भवन्ति । उद्गमादिदोषाणां तु प्रतिपदव्याख्यानं पिण्डनियुक्तितः पिण्डविशुद्धितो वा विज्ञेयम् । इह तु ग्रन्थप्रथाभयान प्रपञ्चितम् ।।४७७।। पिण्डसमितेरेवावश्यपालनीयतामाह -
खणमित्ततित्तिहेउस्स कह णु खुद्दस्स भोयणस्स कए ? ।
पिल्लिज पिंडसमिइं संजमसंजीवणिं विउसो ।।४७८।। क्षण: कालविशेषस्तदुपलक्षितं मुहूर्त्तादि । तन्मात्रसमयतृप्तिहेतोः सौहित्यापादकस्यात एव क्षुद्रस्य स्वल्पकार्यकारिणो भोजनस्य वल्लस्यापि कृते । नु इति वितर्के । कथं नाम विद्वान पूर्वोपवर्णितां पिण्डसमितिं पर्यस्येत् । किल क्रियते तदपि यदि तद्विधाने स्वस्याजरामरत्वादि स्यात्, न च तथा । अथ किमर्थं पिण्डसमितेः प्रतिपालनार्थमियान् यत्नस्तदाह - यतः संयमसंजीवनी संयमस्य सप्तदशविधस्यापि जीवातुं । व्यवहारशुद्धिमन्तरेण गृहिधर्म इवाहारशुद्धिविनाभूतः सीदत्येव यतिधर्म इति ।।४७८ ।। साम्प्रतं पिण्डसमितिप्रमत्ताननुशोचति -
खंडंति पिंडसोहिं छुहवेयणविहुरिया वि जे कीवा ।
दुग्गोवसग्गवियणाविणिवाए का गई तेसिं ? ॥४७९।। ये क्लीबास्तपस्विनः पिण्डविशुद्धिं दर्शितस्वरूपां खण्डयन्ति पर्यस्यन्ति । किम्भूताः ? क्षुद्वेदनयाऽपि विधुरिता: निःसत्त्वतामारोपिताः । तेषां कदाचित् प्रबलवेदनीयोदयात् तिर्यग्नरामरादिजनिते दुर्गोपसर्गवेदनाविनिपाते समुपस्थिते का गतिः । कथं ते तत्सोढारो भवेयुरिति ।।४७९।। अन्यञ्च -
रसगारवंमि गिद्धा मुद्धा हारंति तुच्छसुहलुद्धा ।
दिव्वाइं सुहसयाई, अच्छरगणघणसिणेहाई ॥४८०।। केचिदल्पमतयो रसगौरवे गृद्धा गार्द्धयमुद्वहन्तस्तुच्छे तुच्छजनप्रलोभिनि सुखे देहसौहित्यादिरूपे लुब्धा धृतलम्पटत्वाः । दिव्यानि देवभवसुलभानि सुखशतानि हारयन्ति । किम्भूतानि ?
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org