Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 497
________________ हितोपदेशः । गाथा- ४८४, ४८५ - मनोगुप्तेः स्वरूपम् ।। वाग्गुप्तेः स्वरूपम् ।। विचारोऽर्थव्यञ्जनयोगसङ्क्रमः । अर्थो द्रव्यं व्यञ्जनं शब्दः । योगो मनःप्रभृति । एतद्भेदेन सविचारमर्थाद् व्यञ्जनं सङ्क्रामतीति प्रथमं शुक्लम् । एकत्ववितर्कमविचारम् । एकत्वेनाभेदेन वितर्कोऽर्थरूपो व्यञ्जनरूपो वा यस्य तत्तथा । तदेवंविधं द्वितीयं शुक्लम् । सूक्ष्मक्रियानिवृत्ति तृतीयं शुक्लम् । तच्च केवलिनो निर्वाणगमनकाले मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति । काययोगस्तूच्छ्वासनिश्वासादिलक्षणः सूक्ष्म एवास्य विज्ञेयः । व्यवच्छिन्नक्रियं तु चतुर्थं शुक्लम् । तच्च शैलेशीगतस्य केवलिनः सर्वात्मनैव निरुद्धसकलयोगस्य शैलेशवन्निष्प्रकम्पस्य भवति । एवंविधयोः पूर्वोपवर्णितध्यानद्वयापेक्षया वरयोः प्रधानतमयोर्धर्म्मशुक्लध्यानयोर्मनसि यः सङ्क्रमः सा विमुक्ताशेषकुविकल्पकल्पनाजालस्यात्मारामस्य मुनेर्मनोगुप्तिरिति । । ४८४ ।। 'वाग्गुप्तिमाह I ४५२ विगहापरिहारेणं सज्झायं पंचहा जहाजोगं । जुंजंता वयगुत्ता हुंति मुणी अहव कयमोणा ॥। ४८५ ।। सङ्क्रान्तिः, व्यञ्जनादर्थसङ्क्रान्तिः, मनोयोगात् काययोगसङ्क्रान्ति-र्वाग्योगसङ्क्रान्तिर्वा । एवं काययोगान्मनोयोगं वाग्योगं वा सङ्क्रामति । तथा वाग्योगान्मनोयोगं काययोगं वेति । यत्र सङ्क्रामति तत्रैव निरोधो ध्यानमिति । एकस्य भाव एकत्वं, एकत्वगतो वितर्क एकत्ववितर्कः । एक एव योगस्त्रयाणामन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तमुत्पादव्ययध्रौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीप-वन्निष्प्रकम्पं, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्कमविचारम् ।। - तत्त्वा० सि० टीका० ९/३९ ।। सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम्, तच्च योगनिरोधकाले भवति । वेद्य-नाम- गोत्रकर्मणां भवधारणायुष्काद-धिकानां समुद्घातसामर्थ्यादचिन्त्यैश्वर्यशक्तियोगादायुष्कसमीकृतानां मनोवाक्काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्तकमनोऽसङ्ख्येयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावमा व्युपरतकियानिवृत्तिध्यानावाप्तेः । त्रसबादरपर्याप्तादेयसुभगकीर्तिमनुजनाम्नि पञ्चेन्द्रियतामन्यतरञ्च वेद्यम् उच्चैस्तथा गौत्रम् । मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रकृतीः वेदयति तु तीर्थकरो द्वादशसहतीर्थकृत्त्वेन सततो देहत्रयमोक्षार्थमनिवर्ति सर्वगतमुपयाति समुच्छिन्नक्रियमतस्कं परं ध्यानं व्युपरतक्रियमनिवर्तीत्यर्थः । तद्धि तावन्निवर्तते यावन्न मुक्तः ।। - तत्त्वा० सि० टीका० ९ / ४१ ।। अयोगानामिति शैलेश्यवस्थानां हस्वाक्षरपञ्चकोच्चारणसमकालानां मनो-वाक्- काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति ।। - तत्त्वा० सि० टीका० ९/४३ ।। शुक्लध्यानस्य प्रथमभेदस्वरूपं दृश्यतां श्लो० ६ / ६५ । द्वितीयभेदस्वरूपं दृश्यतां श्लो० ७४/७९ । तृतीयभेदस्वरूपं दृश्यतां श्लो० ९४, ९५ । चतुर्थभेदस्वरूपं दृश्यतां श्लो० १०४/१०५ गुणस्थानकक्रमारोहमध्ये | गाथा- ४८५ 1. तुला - वाग्गुप्तिमाह संज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् । वृत्तेः संवृतिर्वा या सा वाग्गुप्तिरिहोच्यते ।। योग शा० १ / ४२ ।। - For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_02 -

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534