Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 498
________________ हितोपदेशः । गाथा-४८५, ४८६ - वाग्गुप्तेः स्वरूपम् ।। कायगुप्तेः स्वरूपम् ।। ४५३ एवंविधा मुनयो वाग्गुप्ता भवन्ति । किं कुर्वाणा: ? पञ्चधा पञ्चप्रकारं स्वाध्यायं प्रयुञ्जानाः । तद्यथा - वाचनारूपं प्रश्नरूपं परावर्तनरूपमनुचिन्तनरूपं धर्मकथारूपं च । तत्र वाचना विनेयाय निर्जरायै सूत्रार्थदानम् । शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्नः । परावर्त्तनं तु पूर्वाधीतस्यैव सूत्रादेरविस्मरणं निर्जरानिमित्तमभ्यासकरणम् । अनुचिन्तनं मनसैवाविस्मरणनिमित्तं सूत्राद्यनुस्मरणम् । धर्मकथा स्वपरयोरनुग्रहाय यथावस्थितस्याहद्देशितस्यार्थस्यैहिकपूजासत्कारश्लोकाद्यनभिलाषेणैकान्ततो निर्जरार्थं प्रथनं । भवति चैवं कथकस्यावश्यं स्वार्थसिद्धिः । उक्तं च - न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ।।१॥ [ ] तदेवंविधं पञ्चधा स्वाध्यायं यथायोग्यं स्थाना[न]तिक्रमेण स्त्रीभक्तचौरजनपदनरेन्द्रादिप्रतिबद्धविकथापरिहारेणमुनयः प्रयुञ्जानावाग्गुप्ताभवन्तीत्येकावाग्गुप्तिः । द्वितीयामाह-'अहवकयमोणा' अथवेतिभेदप्रदर्शने ।अथवा संज्ञादिपरिहारपुरस्सरमेकान्ततः कृतमौनावाग्गुप्ताः ।।४८५।। कायगुप्तिमाह - वीरासणाइएहिं अगणंता गिम्हसिसिरमसगाई । आयाविंता मुणिणो अपमत्ता हुंति तणुगुत्ता ।।४८६।। ___ संज्ञा मुख-नयन-भ्रूविकाराङ्गुल्याच्छोटनादिका अर्थसूचिकाश्चेष्टाः, आदिशब्दाल्लोष्टक्षेपोलीभाव-कासित-हुङ्कतादीनि गृह्यन्ते । संज्ञादीनां यः परिहारस्तेन यन्मौनमभाषणं तस्यावलम्बनमभिग्रहः । संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका वाग्गुप्तिः । वाचन-प्रच्छन-पृष्टव्याकरणादिषु लोकाऽऽगमाविरोधेन मुखवत्रिका-च्छादितवक्त्रस्य भाषमाणस्यापि वाग्वृत्तेः संवृतिर्वाग्विनियन्त्रणं द्वितीया वाग्गुप्तिः । आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च रूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः । यदाहुः - “समिओ नियमा गुत्तो गुत्तो समियत्तणम्मि भयणिज्जो । । कुसलवइमुईरंतो जं वइगुत्तो वि समिओ वि" ।। - बृहत्कल्प भा० ४४५१, निशीथभा० ३७, योग शा० १/४२ टीका ।। गाथा-४८६ 1. तुला - अथ कायगुप्तिः - सा च द्विधा-चेष्टानिवृत्तिलक्षणा, यथासूत्रं चेष्टानियमलक्षणा च । तत्राद्यामाह - उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य कायगुप्तिर्निगद्यते ।। - योग शा० १/४३ ।। उपसर्गा देव-मानुष-तिर्यकृता उपद्रवाः, उपलक्षणत्वात् क्षुत्पिपासादयः परीषहा अपि गृह्यन्ते, तेषां प्रसङ्गः ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534