Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 493
________________ ४४८ हितोपदेशः । गाथा-४८३, ४८४ - उत्सर्गसमितेः स्वरूपम् ।। मनोगुप्तेः स्वरूपम् ।। मुनयः पात्रपीठाधुपकरणं प्रयोजनोत्पत्तौ गृह्णन्ति तत्समाप्तौ च मुञ्चन्ति स्थान एव स्थापयन्ति । किं कृत्वा ? दृष्ट्या प्रथमं दृष्ट्वा सुनिपुणं निरूप्य तदनु रजोहरणादिना सम्यगुपयोगपूर्वकं प्रमृज्य । न पुनरन्यचित्ततया । तथा हि न सम्यक् प्रतिलेखना स्यात् । उक्तं च - पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पश्चक्खाणं वाएइ सयं पडिच्छइ वा ।।१।। पुढविआउक्काए तेउवाऊवणस्सइतसाणं । पडिलेहणापमत्तो छन्हं पि विराहगो भणिओ ।।२।। [ओघनियुक्ति गा. २७३-२७४] अतः सम्यगित्युक्तम् । एवं कुर्वाणाश्च मुमुक्षवो नियतमादानसमितिसमिता इति ।।४८२।। उत्सर्गसमितिमाह - मलजलखेलाईयं सुप्पडिलेहियपमज्जियपएसे । जयणाइ वोसिरावणपुव्वं, निसिरंति तस्समिया ।।४८३।। मलं पुरीषं, जलमनुपयोगिपानाहारम् । खेल: श्लेष्मा । आदिशब्दादन्यदपि परिष्ठापनाह वस्रपात्रादि पूर्वोक्तयुक्त्या सुप्रतिलेखिते सुप्रमार्जिते प्रदेशे स्थण्डिले यतनया भावैर्भूत्वा व्युत्सर्जनपूर्वं यथाऽल्पोऽपि तत्प्रत्ययः पापानुबन्धो न स्यादेवं 'निसिरंति' व्युत्सृजन्ति तत्समिता उत्सर्गसमितिसमिता साधव इति ।।४८३।। एवमवसिताः समितयः । 'सम्प्रति गुप्तीनामवसरस्तास्वपि मनोगुप्तिमाह - परिचत्तअट्टरुद्दे मणमि समभावभाविए सम्मं । वरधम्मसुक्कझाणाण संकमो होइ मणगुत्ती ।।४८४ ।। गाथा-४८३ 1. तुला - उत्सर्गसमितिमाह - कफ-मूत्र-मलप्रायं निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत् ।। - योग शा. १/४० ।। ___ कफ: श्लेष्मा मुख-नासिकसञ्चारी, मूत्रं प्रश्रवणम्, मलो विष्टा, प्रायग्रहणादन्यदपि परिष्ठापनायोग्यं वस्त्र-पात्रभक्त-पानादि गृह्यते । निर्जन्तुस्रसस्थावर-जन्तुरहिता स्वयं च निर्जन्तुर्या जगती तस्यास्तलं स्थण्डिलमित्यर्थः । तत्र यत्नादुपयोगपूर्वकं यदुत्सृजेत् साधुः सोत्सर्गसमितिः ।। - योग शा. १/४० टीका ।। गाथा-४८४ 1. तुला - अथ गुप्तीनामवसरः, तत्र मनोगुप्तिमाह - विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ।। - योग शा. १/४१ ।। इह मनोगुप्तित्रिधा - आर्त्त-रौद्रध्यानानुबन्धिकल्पनाजालवियोग: प्रथमा । शास्त्रानुसारिणी परलोकसाधिका Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534