________________
४४२
हितोपदेशः । गाथा-४७६, ४७७ - भाषासमितेः स्वरूपम् ।। एषणासमितेः स्वरूपम् ।।
मेयम् ।।१।। [ओघनियुक्ति भा. गा. ३] इति सप्ततिभेदानि । करणान्यपि - "पिंडविसोही "समिई १२भावण "पडिमा उ "इंदियनिरोहो । २५पडिलेहण' गुत्तीओ "अभिग्गहा चेव करणं तु ।।१।। [ओधनियुक्ति भा. गा. ३] इति सप्ततिभेदान्येव । अत एतेषु संयमयोगेषु यथाशक्ति स्वशक्तेरनतिक्रमेण यतिर्यतेत । अयथार्थभाषणमुत्सूत्रप्ररूपणं पुनर्यत्नेन महता प्रयत्नेन त्यजेत् । यतो भणितमागमेऽपि ।।४७५ ।। तदेव दर्शयति -
"उस्सुत्तभासगाणं बोहीनासो अणंतसंसारो ।
पाणञ्चए वि धीरा तम्हा न वयंति उस्सुत्तं" ॥४७६।। [ ] मदाज्ञानादिभिरुत्सूत्रभाषकाणां बोधेस्तत्त्वार्थश्रद्धानरूपायाः शिवशाखिबीजकल्पाया नाशस्तत्प्रत्ययश्चानन्तसंसारस्ततः प्राणात्ययेऽपि धीराः सत्त्वशालिनः कदाचिदुत्सूत्रं न वदन्ति । तुरुमिणीदत्तानुयुक्तयज्ञफलकालिकाचार्यवत् ।।४७६।। एषणासमितिमाह
उग्गमउप्पायणदुविहएसणासुद्धमत्रवत्थाई ।
कारणजाए जइणो गिण्हंता एसणासमिया ।।४७७।। गाथा-४७६ 1. तुला - एषणासमितिमाह - द्विचत्वारिंशता भिक्षादोषैनित्यमदूषितम् ।
मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ।। - योग शा. १/३८ ।। द्वाभ्यामधिका चत्वारिंशत् द्विचत्वारिंशद् भिक्षादोषा उद्गमोत्पादनैषणालक्षणाः । तत्रोद्गमदोषा गृहस्थप्रभवाः षोडश, तद्यथा -
आहाकम्मुद्देसिय पूईकम्मे अ मीसजाए अ । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ।।१।। . परिअट्टिए अभिहडे उब्भिण्णे मालोहडे इअ । अच्छिज्जे अणिसट्टे अज्झोयरए अ सोलसमे ।।२।।
- [पिण्डनि. गा. ९२-९३] 'आधाय' विकल्प्य, यतिं मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुक्तादाधाकर्म ।।१।।
उद्देश: साध्वर्थं सङ्कल्पः, स प्रयोजनमस्य औद्देशिकम्, यत् पूर्वकृतमोदन-मोदकक्षोदादि तत् साधूद्देशेन दध्यादिना गुडपाकेन च संस्कुतो भवति ।।२।।
आधाकर्मिकावयवसम्मिश्रं शुद्धमपि यत्तत् पूतिकर्म शुचिद्रव्यमिवाशुचिद्रव्यसम्मिश्रम् ।।३।। यदात्मार्थं साध्वर्थं चादित एव मिश्रं पच्यते तन्मिश्रम् ।।४।। साधुयाचितस्य क्षीरादेः पृथक्कृत्य स्वभाजने स्थापनं स्थापना ।।५।।
कालान्तरभाविनो विवाहादे: ‘इदानीं सन्निहिताः साधवः सन्ति, तेषामप्युपयोगे भवतु' इति बुद्ध्या इदानीमेव करणं समयपरिभाषया प्राभृतिका, सन्निकृष्टस्य विवाहादेः कालान्तरे साधुसमागमनं सञ्चिन्त्योत्कर्षणं वा ।।६।।
यदन्धकारव्यवस्थितस्य द्रव्यस्य वह्नि-प्रदीप-मण्यादिना भित्त्यपनयनेन वा बहिनिष्कास्य द्रव्यधारणेन वा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org