________________
हितोपदेशः । गाथा-४७३, ४७४, ४७५ - भाषासमितेः स्वरूपम् ।।
४४१
त्यभिमुखीकरोति या सा आक्षेपणी कथा शृङ्गारादिप्राया । विक्षिपति भोगाभिलाषान् या कामभोगेषु वैमुख्यमापादयति सा विक्षेपणी । सम्यग् वेज्यते भयं ग्राह्यते श्रोता यया सा संवेजनी कथा । नारकतिर्यगादिदुःखलक्षोपक्षेपणीं यां श्रुत्वा भव्यप्राणी चतुर्विधादपि संसारादुद्विजते मोक्षार्थं च घटत इति । निर्वेदं नीयते यया कथया कामभोगेषु सा निवेदनी । यस्याः स्त्रीशरीराद्यशुचित्वकामभोगादिबीभत्सत्वपरिणामदारुणत्वादिश्रवणेन निर्विण्णः परित्यज्य विषयान् निस्सङ्गः सिद्धिवध्वाराधनसज्जः प्रवर्तत इत्येवंरूपां कथां प्रथयन् सूक्ष्मेषु निपुणमतिगम्येष्वपि समयसारवस्तुषु सिद्धान्तोपनिषत्सु सम्यगुक्तन्यायेन भाषासमितो मुनिर्वितथवादेनायथार्थप्ररूपणेन न छले पात्यते । भाषासमितिप्रमत्तस्यैव तथासम्भवात् ।।४७२।। वितथवादिन एव सर्वजघन्यतामाह -
वरमनाणी वि मुणी कट्ठाणुट्ठाणविरहिओ वा वि । नाणकिरियारओ वि हु अजहत्थपरूवगो न वरं ।।४७३।। अज्ञानी सम्यक्ज्ञानशून्योऽपि मुनिर्वरम् । तथा कष्टानुष्ठानेन नक्तन्दिनावश्यविधेयेन प्रेक्षोत्प्रेक्षादिना क्रियाकलापेन विरहितः सोऽपि वरम् । यथोक्तज्ञानक्रियारतोऽप्ययथार्थप्ररूपकः सर्वज्ञोपज्ञाऽर्थाऽन्यथाभाषकस्तु न वरम् । ज्ञानक्रियाशून्ययोस्तु वरत्वमुत्सूत्रभाषकापेक्ष्य (क्ष)मेव, न तु सामान्यतः ।।४७३ ।। अतः किमर्थं वितथप्ररूपकस्यैवं विगर्हणीयत्वमित्याह -
नाणकिरियासु सिढिला अप्पाणं चिय भवंमि पाडंति ।
वितहा परूवगा पुण अणंतसत्ते भमाडिंति ॥४७४।। यतो ज्ञानावरणोदयाञ्चारित्रावारकोदयाञ्च ज्ञाने क्रियायां च श्लथाः प्रमादिनः केवलमात्मनमेव भवे संसृतौ पातयन्ति । वितथप्ररूपकाः पुनरात्मानमनन्तांश्चापरानपि तद्वचनश्रद्धालून् सत्त्वान् भ्रामयन्ति, प्रस्तावादनन्तसंसार इत्यतः कथं ते नानुशोच्या इति ।।४७४ ।। एवं च सति यद् विधेयं तदाह -
तम्हा जहसत्तीए जइज्ज तवचरणकरणजोगेसु ।
अजहत्थभासणं पुण चइज जत्तेण जं भणियं ।।४७५।। तस्मादेवं सति द्रव्यक्षेत्रकालबलसंहननाद्यनुमानेन तपो द्वादशविधमनशनादि, चरणानि च "वय-"समणधम्म-संजम-वेयावझं च 'बंभगुत्तीओ । 'नाणाइतियं तव-कोहनिग्गहाइ चरण
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org