________________
हितोपदेशः । गाथा- ४७२- भाषासमितेः स्वरूपम् ।।
भयेन सप्तविधेन हास्येन नोकषायोदयरूपेण क्रोधेन प्रथमकषायेण लोभेन चतुर्थसम्परायेण चरहितां न पुनर्भयादिभिर्वितथत्वमापादिताम् । तथा निपुणया पूर्वापराविसंवादिन्या बुद्धया धिया संस्थापितां, भणनकालात् प्रथममेव इदमित्थमिति चेतसि सङ्कलिताम् । तथा स्याद्वादसप्तभङ्गीमनुप्रविष्टाम् । न तूभयकोट्यवलम्बिन्यर्थे इदमित्थमेवेत्यवधारणरूपाम् । एवंविधां भाषां तत्समिता भाषासमितिसमिताः प्रस्तावान्मुनयो भाषन्ते, न पुनरेतद्विपरीताम् । यदाहुः -
४४०
जाय सच्चा न वत्तव्वा सच्चामोसा य जा मुसा ।
जाय बुद्धेहिं णाइत्रा न तं भासिज्ज पन्त्रवं । [दशवैकालिक अध्य० ७ गा. २] इति ।। ४७१ ।। एवं च
कुणमाणो धम्मक सुहमेसु वि समयसारवत्थूसु ।
भासासमिओ सम्मं न छलिज्जइ वितहवाएण ।।४७२ ।।
कुर्वाणो विदधानो 'धर्मकथामाक्षेपणीं विक्षेपणीं संवेजनीं निर्वेदनीं च । तत्राक्षिपत्यावर्जयएवंविधं यद् भाषणं सा भाषासमितिः । भाषायां सम्यगितिर्भाषासमितिः । सा च प्रिया अभिमता वाचंयमानां मुनीनाम् । यदाहुः -
“जा य सच्चा न वत्तव्वा सच्चामोसा य जा मुसा । जा य बुद्धेहिं णाइण्णा ण तं भासेज्ज पण्णवं ।।" [दशवै० ७ / २] इति ।। योग शा० १ / ३७ ।।
गाथा- ४७२ 1. तुला - तृतीयाक्षेपणी चैका तथा विक्षेपणी परा । अन्या संवेजनी निर्वेजनी चेति चतुर्विधा ।। द्वाद्वा. ९/४ ।। तृतीया धर्मकथा च एका आक्षेपणी, तथा परा विक्षेपणी, अन्या संवेजनी, च पुनर्निवेजनी इति चतुर्विधा ।। - द्वा. द्वा. ९/४ टीकायाम् ।।
आक्षेपणी - आचाराद् व्यवहाराञ्च प्रज्ञप्तेर्दृष्टिवादतः । आद्या चतुर्विधा श्रोतुश्चित्ताक्षेपस्य कारणम् ।। द्वा. द्वा. ९/५ ।। आचारं व्यवहारं प्रज्ञप्तिं दृष्टिवादं चाश्रित्य आद्याक्षेपणी चतुर्विधा ।। - द्वा. द्वा. ९/५ टी. 11 विक्षेपणी - स्वपरश्रुतमिथ्यान्यवादोक्त्या संक्रमोत्क्रमम् । विक्षेपणी चतुर्धा स्यादृजोर्मार्गाभिमुख्यहृत् ।। द्वा. द्वा. ९/९ ।। स्वपरश्रुते स्वसमयपरसमयौ, मिथ्यान्यवादौ मिथ्यावादसम्यग्वादौ तयोरुक्त्या प्रतिपादनेन । संक्रमोत्क्रमं पूर्वानुपूर्वीपश्चानुपूर्वीसहितं यथा स्यात्तथा । चतुर्धा विक्षेपणी स्यात् ।। - द्वा. द्वा. ९/९ टी. ।। संवेजनी -- मता संवेजनी स्वान्यदेहेहप्रेत्यगोचरा । यया संवेज्यते श्रोता विपाकविरसत्वतः । । द्वा. द्वा. ९/१३ ।।
"
कथा । विपाकविरसत्वतो विपाकवैरस्यात् प्रदर्शितात् श्रोता संवेज्यते संवेगं ग्राह्यते सा संवेजनी । स्वान्यदेहेहप्रेत्यगोचरा स्वशरीरपरशरीरेहलोकपरलोकविषया चतुर्विधा मता ।। - द्वा. द्वा. ९ / १३ टी. ।। निवेदनी - चतुर्भंगी समाश्रित्य प्रेत्येहफलसंश्रयाम् । पापकर्मविपाकं या ब्रूते निर्वेजनी तु सा ।। द्वा. द्वा. ९ / १५ ।। या कथा पापकर्मविपाकं । प्रेत्येहफलसंश्रयामिहलोकपरलोकभोगाश्रितां चतुभंगीं समाश्रित्य ब्रूते । सा तु निवेजनी चतुर्भिरेव भङ्गः प्रतिपाद्यमानैश्चतुर्विधेति भावः ।।
- द्वा. द्वा. ९ / १५ टी. ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org