________________
हितोपदेशः । गाथा-४६८-६९-७०-७१ - ईर्यासमितेः स्वरूपम् ।। भाषासमितेः स्वरूपम् ।।
४३९
अत्राह परः -
नणु कहमुवउत्ताण वि छउमत्थमुणीण सुहुमजियरक्खा ।
सचं तहवि न वहगा उवओगपरा जओ भणियं ।।४६८।। नन्विति पूर्वपक्षोपन्यासे । छद्मस्थानां विशिष्टज्ञानातिशयरहितानां मुनीनामुपयुक्तानां सम्यगीर्यासमितानामपि सूक्ष्माणां चर्मचक्षुषामदृश्यानां जीवानां कथं रक्षासम्भवः ? । आचार्यः प्राह - भोः ! पर ! सत्यमवितथमेवैतद् भवद्वचः । तथाऽपि विशेषज्ञानशून्या अपि ते यधुपयोगपरा: पूर्वोक्तयुक्त्या चक्रमणप्रवृत्तास्तदा सम्भवत्यपि प्राणिवधे न ते वधका वधपापांशभाजः । न चैतत् काल्पनिकं । यतो भणितमागमेऽपि ।।४६८।। तदेव दर्शयति -
उञ्चालियम्मि चरणे इरियासमियस्स संकमट्ठाए । वावजिज कुलिंगी मरिज तं जोगमासज्ज ।।४६९।। न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए ।
अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ।।४७०।।[ ] उचालिते समुत्क्षिप्ते चरणे पादे ईर्यासमितस्य मुनेः सङ्क्रमार्थं गमनार्थं व्यापद्येत मारणात्मिकी व्यापत्तिं प्राप्नुयात् । कुलिङ्गी एकेन्द्रियादि म्रियेत प्राणान् वा जह्यात् । किं कृत्वा ? तदेव तस्य मुनेर्योगं गमनलक्षणं व्यापारमासाद्य । न च तस्येर्यासमितस्य मुनेस्तत्रिमित्तस्तद्वधप्रत्ययः सूक्ष्मः स्वल्पोऽपि बन्ध: प्रस्तावात् कर्मणः देशितः कथितः समये जिनागमे । किमित्याह - यद् यस्मात् स मुनिः सर्वस्वभावेन सर्वात्मना तेन प्रयोगेण गमनलक्षणेन वधकोऽप्यप्रमत्ततयाऽनवद्यो निरवद्यो निर्दोष एव । मनःपरिणामायत्तत्वात् कर्मबन्धस्य ।।४६९।।४७०।। भाषासमितिमाह -
भयहासकोहलोहेहिं विरहियं निउणबुद्धिसंठवियं ।
सियवायमणुपविढे भासं भासंति तस्समिया ।।४७१।। गाथा-४७१ 1. तुला - भाषासमितिमाह - अवद्यत्यागतः सर्वजनीनं मितभाषणम् । प्रिया वाचंयमानां सा भाषासमितिरुच्यते ।। - योग शा० १/३७ ।।
अवद्यानि भाषादोषा वाक्यशुद्ध्यध्ययनप्रतिपादिताः धूर्त्त-कामुक-क्रव्याद-चौर-चार्वाकादिभाषितानि च, तेषां निर्दम्भतया त्यागः, ततः सर्वजनीनं सर्वजनेभ्यो हितम्, मितं स्वल्पमप्यतिबहुप्रयोजनसाधकं तञ्च तद्भाषणं च । यदाह - "महुरं निउणं थोवं कज्जावडियं अगव्वियमतुच्छं । पुव्विं मइसंकलियं भणंति जं धम्मसंजुत्तं ।।" [उपदेश० ८०]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org