________________
४३८
हितोपदेशः । गाथा-४६७ - ईर्यासमितेः स्वरूपम् ।।
ईर्यासमितिर्हि न खलु किञ्चिद्वस्त्वन्तरं, केवलं त्रसस्थावरजन्तुजाताऽभयदानदीक्षितानां मुनीनां प्राणिरक्षानिमित्तमात्मरक्षार्थं च चरणाग्रादारभ्य युगमात्रक्षेत्रं यावदवलोक्य यदीरणं गमनं सैवेर्यासमितिस्तदुपलक्षिताश्च मुनयोऽपीर्यासमितास्तेषाम् । क्व तद् गमनमित्याह - करितुरगनरखरादिभिः परिमलिते क्षुन्ने(ण्णे) पथि वर्त्मनि । अनुपमर्दिते हि पथि प्रचलतां यतीनामसुकरा षड्जीवनिकाययतना । पुनः किंविशिष्टे ? मिह हि रकरस्पृष्टे भास्वत्प्रभोद्भासिते । इयता च परिमलितेऽप्यध्वनि सम्पातिमसत्त्वसम्मभीरूणां मुनीनामुत्सर्गतो रात्रिगमने निषेधः । ननु तर्हि दिवा स्वेच्छमस्तु तेषां सञ्चारो, नेत्याह - अनवद्यं सावधरहितं कार्यं ज्ञानदर्शनचारित्रादिविषयं प्रयोजनमवश्यकृत्यमधिकृत्य । कथं गमनमित्याह - एकाग्रमनोनयनं मनोनयनैकाग्रयमन्तरेण भवत्येव संयमात्मविराधना । यदाहुः -
पुरओ जुगमायाए पेहमाणो महिं चरे । वजंतो बीयहरियाइं पाणे य दगमट्टियं ।।१।। ओवायं विसमं खाणुं विजलं परिवजए । संकमेण न गच्छिज्जा विजमाणे परक्कमे ।।२।।त्ति [दशवै. अ.५, उ.१, गा. ३-४] ।।४६७।।
गाथा-४६७ 1. तुला - ईर्यालक्षणमाह - लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य गतिरीर्या मता सताम् ।।
- योग शा. १/३६ ।। ___ बस-स्थावरजन्तुजाताभयदानदीक्षितस्य मुनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादाग्रादारभ्य युगमात्रक्षेत्रं यावत् निरीक्ष्य ईरणमीर्या गतिः, तस्यां समितिरीर्यासमितिः । यदाहुः - "पुरओ जुगमायाए पेहमाणो महिं चरे । वजंतो बीय-हरियाई पाणे य दग मट्टियं ।।१।।
ओवायं विसमंखाणुं विज्जलं परिवज्जए । संकमेण न गच्छिज्जा विजमाणे परक्कमे ।।२।।" (दशवै०५/१ गा. ३-४) गतिश्च मार्गे भवति, तस्य विशेषणं 'लोकातिवाहिते', लोकैरतिवाहिते अत्यन्तक्षुण्णे, चुम्बिते स्पृष्टे आदित्यकिरणैः । प्रथमविशेषणे परैर्विराधिते मार्गे गच्छतो यतेः षड्जीवनिकायविराधना न भवति, उन्मार्गेण न गन्तव्यमिति चाह । तथाविधेऽपि मार्गे रात्रौ गच्छतः सम्पातिमसत्त्वविराधना भवेदिति तत्परिहारार्थं द्वितीयविशेषणम् । एवंविधोपयोगवतश्च गच्छतो मुनेः कथञ्चित् प्राणिवधेऽपि प्राणिवधपापं न भवति । यदाह -
"उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए । वावज्जेज कुलिंगी मरिज तं जोगमासज्ज ।।१।।" ।
"न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए । अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ।।२।।" (ओघ नि० गा- ७४९-७५०) । तथा - ___ "जिअदु व मरदु व जीवो अजदाचारस्स निच्छओ हिंसा । पयदस्स णत्थि बंधो हिंसामेत्तेण समिदस्स ।।" (प्रवचन० ३/१७)
- योग शा. १/३६ टीका० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org