SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-४७७ - एषणासमितेः स्वरूपम् ।। ४४३ - एवंविधमत्रवस्त्रादि यतयो गहन्तः समाददाना एषणासमिता भवन्ति । किम्भूतम् ? प्रकटकरणं तत् प्रादुष्करणम् ।।७।। यत् साध्वर्थं मूल्येन क्रीयते तत् क्रीतम् ।।८।। यत् साध्वर्थमन्नादि उद्यतकं गृहीत्वा दीयते तत् प्रामित्यकम् ।।९।। स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीत्वा यद्दीयते तत् परिवर्तितम् ।।१०।। गृह-ग्रामादेः साध्वर्थं यदानीतं तदभ्याहृतम् ।।११।। कुतुपादिस्थस्य घृतादेर्दानार्थं यत् मृत्तिकाद्यपनयनं तदुद्भिन्नम् ।।१२।। यदुपरिभूमिकातः शिक्यादेर्भूमिगृहाद्वा आकृष्य साधुभ्यो दानं तन्मालापहृतम् ।।१३।। यदाच्छिद्य परकीयं हठाद् गृहीत्वा स्वामी प्रभुश्चौरो वा ददाति तदाच्छेद्यम् ।।१४।। यद् गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चित् साधुभ्यो ददाति तदनिसृष्टम् ।।१५।। स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदर्थं पुनयों धान्यावापः सोऽध्यवपूरकः ।।१६।। उत्पादनादोषा अपि षोडश, ते च साधुप्रभवाः । तद्यथा - “धाई दूइ निमित्ते आजीव वणीवगे तिगिच्छा य । कोहे माणे माया लोभे अ हवंति दस एए ।।१।। पुब्विंपच्छासंथव विज्जा मंते अ चुण्ण जोए अ । उप्पायणाइ दोसा सोलसमे मूलकम्मे अ ।।२।।" [पिण्डनि० ४०८-४०९] बालस्य क्षीर-मज्जन-मण्डन-क्रीडना-ऽङ्कारोपणकर्मकारिण्य: पञ्च धात्र्यः । एतासां कर्म भिक्षार्थ कुर्वतो मुनेर्धात्रीपिण्डः ।।१।। मिथः सन्देशकथनं दूतीत्वम्, तत् कुर्वतो भिक्षार्थं दूतीपिण्डः ।।२।। अतीता-ऽनागत-वर्तमानकालेषु लाभा-ऽलाभादिकथनं निमित्तम् । तद् भिक्षार्थं कुर्वतो निमित्तपिण्डः ।।३।। जाति-कुल-गण-कर्म-शिल्पादिप्रधानेभ्य आत्मनस्तत्तद्गुणत्वारोपणं भिक्षार्थमाजीवपिण्डः ।।४।। श्रमण-ब्राह्मण-कृपणाऽतिथि-श्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो वनीपकपिण्डः ।।५।। वमन-विरेचन-बस्तिकादि कारयतो वैद्य-भैषज्यादि सूचयतो वा पिण्डार्थं चिकित्सापिण्डः ।।६।। विद्या-तपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा भिक्षार्थं कुर्वतः क्रोधपिण्डः ।।७।। लब्धि-प्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः ।।८।। नानावेष-भाषापरिवर्त्तनं भिक्षार्थं कुर्वतो मायापिण्डः ।।९।। अतिलोभाद् भिक्षार्थं बहु पर्यटतो लोभपिण्डः ।।१०।। पूर्वसंस्तवं जननी-जनकादिद्वारेण पश्चात्संस्तवं श्वश्रू-श्वशुरादिद्वारेणात्म-परवयोऽनुरूपं सम्बन्धं भिक्षार्थं घटयतः पूर्व-पश्चात्संस्तवपिण्डः ।।११।। विद्यां मन्त्रं चूर्णं योगं च भिक्षार्थं प्रयुञ्जानस्य चत्वारो विद्यादिपिण्डा: - मन्त्रजप-होमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या ।।१२।। पाठमात्रप्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः ।।१३।। चूर्णानि नयनाञ्जनादीनि अन्तर्धानादिफलानि ।।१४।। पादप्रलेपादयः सौभाग्य-दौर्भाग्यकरा योगाः ।।१५।। गर्भस्तम्भ-गर्भाधान-प्रसव-स्रपनक-मूल-रक्षाबन्धनादि भिक्षार्थं कुर्वतो मूलकर्मपिण्डः ।।१६।। गृहि-साधूभयप्रभवा एषणादोषा दश । तद्यथा - Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy