________________
४४४
हितोपदेशः । गाथा-४७७ - एषणासमितेः स्वरूपम् ।।
उद्गमउत्पादनाद्विविधैषणाविशुद्धम् । तत्रोद्गमदोषा गृहस्थप्रभवाः षोडश तद्यथा - “संकिय मक्खिय निक्खित्त पिहिय साहरिअ दायगोम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।।" [पिण्डनि० ५२०] आधाकर्मकादिशङ्काकलुषितो यदन्नाद्यादत्ते तच्छङ्कितम् । यं च दोषं शङ्कते तमापद्यते ।।१।। पृथिव्युदक-वनस्पतिभिः सचित्तैरचित्तैरपि मध्वादिभिर्गर्हितैराश्लिष्टं यदन्नादि तन्म्रक्षितम् ।।२।। पृथिव्युदक-तेजो-वायु-वनस्पतिषु त्रसेषु च यदन्नाद्यचित्तमपि स्थापितं तन्निक्षिप्तम् ।।३।। सचित्तेन फलादिना स्थगितं पिहितम् ।।४।। दानभाजनस्थमयोग्यं सचित्तेषु पृथिव्यादिषु निक्षिप्य तेन भाजनेन ददतः संहतम् ।।५।।
बाल-वृद्ध-पण्डक-वेपमान-ज्वरिता-ऽन्ध-मत्तोन्मत्त-च्छिन्नकरचरण-निगडित-पादुकारूढ-कण्डक-प्रेषकभर्जक-कर्त्तक-लोठक-वींखक-पिञ्जक-दलक-व्यालोडक-भोजक-षट्कायविराधका दातृत्वेन प्रतिषिद्धा या च स्त्री वेलामासवती गृहीतबाला बालवत्सा वा एभ्यो अन्नादि ग्रहीतुं साधोर्न कल्पते ।।६।।
देयद्रव्यं खण्डादि सचित्तेन धान्यकणादिना मिश्रं ददत उन्मिश्रम् ।।७।। देयद्रव्यं मिश्रमचित्तत्वेनापरिणमदपरिणतम् ।।८।। वसादिना संसृष्टेन हस्तेन पात्रेण वा ददतोऽन्नादि लिप्तम् ।।९।।
घृतादि च्छर्दयन् यद्ददाति तत् छर्दितम्, छद्यमाने घृतादौ तत्रस्थस्यागन्तुकस्य वा सर्वस्य जन्तोर्मधुबिन्दूदाहरणेन विराधनासम्भवात् ।।१०।।
तदेवमुद्गमोत्पादनैषणादोषाः संहता द्विचत्वारिंशद् भवन्ति, ते च भिक्षादोषाः, तैरदूषितमन्नमशन-खाद्यस्वाद्यभेदम्, उपलक्षणत्वात् पानं सौवीरादि, तथा रजोहरण-मुखवस्त्र-चोलपट्ट-पात्रादिः स्थविरकल्पिकयोग्यश्चतुर्दशविधो जिनकल्पिकयोग्यश्च द्वादशविध औधिक उपधिः, आर्यिकायोग्यश्च पञ्चविंशतिविधः, औपग्रहिकश्च शय्या-पीठ-फलक-चर्म-दण्डादिरुपलक्षणादेव परिगृह्यते । न ह्यौधिकरजोहरणाद्यन्तरेण औपग्रहिकपीठफलकाद्यन्तरेण च वर्षासु हेमन्त-ग्रीष्मयोरपि जलकणिकाकुलायामनूपभूमौ महाव्रतसंरक्षणं कर्तुं क्षमम् । एतद्दोषविशुद्धमन्नादि यन्मुनिरादत्ते सा एषणमेषणा यथागममन्नादेरन्वेषणम् । अत्र “इषोऽनिच्छायाम्" (सि. ५/३/११२) इति स्त्रियामनः । तस्यां च समितिरेषणासमितिः । इयं गवेषणारूपा एषणा ।
ग्रासैषणाप्यनयोपलक्ष्यते । तस्यां च पञ्च दोषाः, तद्यथा - संयोजना १ प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्च ५ ।
तत्र रसलोभाद् द्रव्यस्य मण्डकादेव्यान्तरेण खण्ड-घृतादिना वसतेर्बहिरन्तर्वा योजनं संयोजना ।।१।।
धृति-बल-संयमयोगा यावता न सीदन्ति तदाहारप्रमाणम् । अधिकाहारस्तु वमनाय मृत्यवे व्याधये चेति तं परिहरेदिति प्रमाणातिरिक्तता दोषः ।।२।।
स्वाद्वन्नं तद्दातारं वा प्रशंसन् यद् भुङ्क्ते स रागाग्निना चरित्रेन्धनस्याङ्गारीकरणादङ्गारो दोषः ।।३।। निन्दन् पुनश्चारित्रेन्धनं दहन् धूमकरणाद् धूमो दोषः ।।४।। क्षुद्वदनाया असहनम्, क्षामस्य च वैयावृत्याकरणम्, ईर्यासमितेरविशुद्धिः, प्रेक्षोपेक्षादेः संयमस्य चापालनम्,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org