Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 468
________________ हितोपदेशः । गाथा-४५१, ४५२ - सर्वविरते: स्वरूपम् ।। ४२३ ॥ सर्वविरताख्यं चतुर्थं मूलद्वारम् ।। दर्शितं सोदाहरणं देशविरत्याख्यं तृतीयं मूलद्वारम् । साम्प्रतं सर्वविरत्याख्यं चतुर्थं प्रस्तावयन्नादौ तत्स्वरूपमाह - जं पुण पाणिवहाईण तिविहं तिविहेण सव्वसंवरणं । सा होइ सव्वविरई विरई भवभमणदुक्खाणं ॥४५१।। पुनः शब्दो देशसंवरणापेक्षया । अतो यत् प्राणिवधादीनां पञ्चानां पापस्थानानां त्रिविधं त्रिविधेन मनोवाक्कायैः करणकारणानुमतिभिश्च सर्वसंवरणमैकान्तिकः परिहारः, सा यतिधर्मापरपर्याया सर्वविरतिर्भवति । किम्भूता ? भवभ्रमणदुःखानां संसृतिसरणसमुत्थाशर्मणां विरतिहेतुत्वाद् 'विरतिः । सम्यगासेवितसर्वविरतयो हि विमुच्यन्त एव भवोद्भवदुःखेभ्य इति ।।४५१।। यतिधर्मस्यैव समुदायार्थमाह - पंच य महव्वयाई, समिईओ पंच तिनि गुत्तीओ । खंतिप्पमुहा य गुणा, इय जइधम्मो समासेण ।।४५२।। इत्युच्यमानस्वरूपेणायं यतिधर्मः समासतो भवति । कथमित्याह - पञ्च महाव्रतानि वक्ष्यमाणानि । समितयोऽपि पञ्च पुरो वर्ण्यमाना: । तिस्रो गुप्तयश्च वक्ष्यमाणा एव । तथा क्षान्त्यादयः क्रोधादिनिग्रहप्रकाराः प्रस्ताव्यमाना एवेति सङ्क्षपतो यतिधर्मः ।।४५२ ।। महाव्रतादीन्येव यथोद्देशं प्रत्येकं व्याचिख्यासुरादौ प्रथमं महाव्रतमाह - गाथा-४५१ 1. विरमणं विरतिः ।। ___ - अभि. ना. श्लो. १५२२ स्वो. टी. 11 गाथा-४५२ 1. सर्व सावद्ययोगानां त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा ।। अहिंसासूनृतोऽस्तेय-ब्रह्मचर्याऽपरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ।। - यो. शा. १/१८-१९ ।। 2. ईर्या-भाषैषणा-ऽऽदान-निक्षेपोत्सर्गसंज्ञकाः । पञ्चाहुः समितीस्तिस्रो गुप्तीनियोगनिग्रहात् ।। - यो. शा. १/३५ ।। 3. "खंती मद्दव अज्जव, मुत्ती तव संजमे अ बोद्धव्वे । सञ्चं सोयं आकिंचणं च बंभं च जइधम्मो ।।" - आव. सङ्ग्रहणी गा. ३ ।। खंती मुत्ती अज्जव, मद्दव तह लाघवे तवे चेव । संजम चाओ ऽकिंचन, बोद्धव्वे बंभचेरे य ।। __- प्रव. सारो. गा. ५५४ वृत्तौ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534