Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 469
________________ ४२४ हितोपदेशः । गाथा- ४५३, ४५४ - प्रथमं महाव्रतम् ।। द्वितीयं महाव्रतम् ।। 'छविजीवनिकायं, जावज्जीवं पि तिविहं तिविहेणं । मणवयतहिं रक्खड़ जं तमिह महव्वयं पढमं ।।४५३ ।। षड्विधमपि जीवनिकायं पृथिव्यप्तेजोवायुवनस्पतित्रसरूपं यावज्जीवमङ्गीकारात् प्रभृत्यामरणान्तं त्रिविधं त्रिविधेन मनोवाक्-तनुभिर्यतिर्यत् पालयति । तद् यथा मनसा षड्विधजीवनिकायं स्वयं न हन्ति, न चान्येन घातयति, न चान्यं घ्नन्तमनुमन्यते । वचसा पृथिव्यादीन् न हन्ति, न च घातयति, नानुमन्यते । कायेन न हन्ति, न घातयति, नानुमन्यते । इति नवकोटिविशुद्धा प्राणातिपातविरतिर्यत् प्रतिपाल्यते, तदिह प्रथमं महाव्रतमिति । । ४५३ ।। द्वितीयं महाव्रतमाह 'महरमगव्वियमणलियमवाहयं कज्जसारमणवज्जं । जं जंप वयणं, तं बिंति महव्वयं बीयं ॥। ४५४ ।। - गाथा - ४५३1. तुला - सुहुमाईजीवाणं, सव्वेसिं सव्वहा सुपणिहाणं । पाणाइवायविमणमिह पढमो होइ मूलगुणो || - पञ्च व. ६५१ ।। एकैकस्वरूपमाह - सूक्ष्मादीनां जीवानामिति, आदिशब्दाद्वादरादिपरिग्रहः, यथोक्तं - " से सुहुमं वा बायरं वे " त्यादि, सर्वेषामिति न तु केषाञ्चिदेव, 'सर्वथा' सर्वैः प्रकारैः कृतकारितादिभिः 'सुप्रणिधानं' दृढसमाधानेन, प्राणातिपातविरमणमिति, विरमणं - निवृत्तिः, 'इहे' ति मनुष्यलोक एव प्रवचने वा प्रथमो भवति मूलगुणः, शेषाधारत्वात् सूत्रक्रमप्रामाण्याच्च प्रथम इति गाथार्थः ।। - पञ्चव. ६५१ वृत्तौ ।। प्रथमं मूलगुणमाह - न यत् प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ।। यो. शा. १/२० ।। । तद्योगात् त्रसानां .यो. शा. १/ २० वृत्तौ ।। - - प्रमादोऽज्ञान- संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-योगदुष्प्रणिधान-धर्मादरभेदादष्टविधः स्थावराणां च जीवानां प्राणव्यपरोपणं हिंसा । तन्निषेधादहिंसा प्रथमं व्रतम् ।। गाथा - ४५४ 1. तुला - कोहाइपगारेहिं, एवं चिअ मोसविरमणं बीओ । पञ्चव. गा. ६५२ ।। क्रोधादिभिः प्रकारैरिति, आदिशब्दाल्लोभादिपरिग्रहः, यथोक्तं- 'से कोहा वा लोभा वेत्यादि, एवमेव - सर्वस्य सर्वथा सुप्रणिधानं मृषाविरमणं द्वितीयो मूलगुणः, सूत्रक्रमप्रामाण्यादेव, पञ्च व. गा. ६५२ वृत्तौ । द्वितीयमाह प्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते । तत् तथ्यमपि नो तथ्यमप्रियं चाऽहितं च यत् ।। यो. शा. १/२१ । तथ्यं वचोऽमृषारूपमुच्यमानं सूनृतव्रतमुच्यते । किं विशिष्टं तथ्यम् ? प्रियं पथ्यं च तत्र प्रियं यत् श्रुतमात्रं प्रीणयति, पथ्यं यदायतौ हितम् । ननु तथ्यमेवैकं विशेषणमस्तु सत्यव्रताधिकारात्, प्रिय-पथ्ययोस्तु कोऽधिकारः ? अत आह- तत् तथ्यमपीति, व्यवहारापेक्षया तथ्यमपि यदप्रियं यथा चौरं प्रति 'चौरस्त्वम्' कुष्ठिनं प्रति 'कुष्ठी Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534