Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 472
________________ हितोपदेशः । गाथा- ४५७ - चतुर्थं महाव्रतम् ।। वसहिकहनिसिजिंदिय कुडुंतरपुव्वकीलिए पणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ ।।१।। [ प्रवचनसारोद्धार गाथा- ५५७] ४२७ तत्र वसतिः स्त्रीपशुपण्डकाकीर्णां सम्भाव्यमानमनोभवविकारोद्भवां परिहरतः प्रथमा गुप्तिः । तथा रागानुबन्धिनीं देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलहशृङ्गारसानुविद्धां कथां स्त्रीसम्बन्धिनीं स्त्रीभिर्वा सह परिहरतो द्वितीया । तथा निषद्या स्त्रीभिः परिभुक्तमासनशयनादिकमपि स्मरविकारोद्दीपनं त्यजतस्तृतीया । तथा इन्द्रियाणि स्त्रीणामविवेकिजनापेक्षया स्पृहणीयानि मुखनयनस्तनजघनादीनि तेषामपूर्वविस्मयनिर्भरतया विस्फारिताक्षमीक्षणं परिहरतश्चतुर्थी । तथा कुड्यान्तरं यत्रान्तरस्थेऽपि दम्पत्योर्मोहनादिशब्दः श्रूयते, तदपि मन्मथोद्रेकजन - कत्वान्मुञ्चतः पञ्चमी । तथा पूर्वं गृहस्थावस्थायां स्त्रीभिः सह यत् क्रीडितं तस्य स्मरणमपि स्मराग्निसन्धुक्षणं वर्जयतः षष्ठी । प्रणीतो वृष्यः स्निग्धमधुरादिरसस्तदासेवनं प्रधानधातुपरिपोषणवेदोदयनिमित्तं परित्यजतः सप्तमी । अतिमात्राहारश्चाकण्ठमुदरपूरणं तदपि मदनोन्मादजनकत्वेन मुञ्चतोऽष्टमी | विभूषां स्वाङ्गस्यैव स्नानाङ्गरागधूपपटवासकेशनखदन्तादिसमारचना । तामपि परिहरतो नवमी । 'नाकामी मण्डनप्रियः' [ ] इति श्रुतेः एवममूर्नवापि ब्रह्मगुप्तः सम्यगासेवमानानां महात्मनां मुनीनामेव मनसोऽपि स्मरविकारपरिहारः सुकरः । अत एव किम्भूतं ब्रह्मव्रतं ? ब्रह्मणः पितामहस्य, लोके परमे ब्रह्मण्यवतिष्ठमानत्वात् परमेष्ठिशब्दवाच्यस्यापि समर्थोऽहमजिह्मब्रह्मव्रतनिर्वाहे नवेत्यन्तर्भयप्रदम् । पशु-पशुपतिसाधारणत्वात् पुष्पायुधायुधव्यापारस्य । तदेवमेवंस्वरूपं ब्रह्मोपनिषन्निषन्नास्तीर्थकृदादयो ब्रह्मव्रताख्यं चतुर्थं महाव्रतं भणन्ति ॥ ४५६।। वृष्य- स्त्रिग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते ७ । तथा रूक्षभैक्ष्यस्याप्यतिमात्र माहारम्आकण्ठमुदरपूरणं वर्जयेत्, ब्रह्मक्षतिकारित्वात् शरीरपीडाकारित्वाच्च ८ । तथा विभूषणा स्नान-विलेपन-धूपन-नखदन्त-केशसंमार्जनादिः स्वशरीरस्य संस्कारस्तां न कुर्यात्, अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथाऽऽत्मानमायासयतीति ९ । एता ब्रह्मचर्यस्य-मैथुनव्रतस्य गुप्तयः - परिरक्षणोपाया ब्रह्मचर्यगुप्तयो नव भवन्ति ॥ प्रव. सा. गा. ५५७ वृत्तौ ।। इह तुलनायाम् आचाराङ्गस्य द्वितीयश्रुतस्कन्धस्य तृतीयाचूलिकामध्ये भावनाध्ययनस्य चतुर्थमहाव्रतस्य भावनाः दृश्यतां । उत्तराध्ययनस्य बंभचेरसमाहिठाणा षोडशमध्ययनम् दृश्यतां । योगशास्त्रप्रथमप्रकाशस्य श्लोक-३०-३१ मध्ये चतुर्थव्रतभावना दृश्यतां । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534