________________
हितोपदेशः । गाथा- ४५७ - चतुर्थं महाव्रतम् ।।
वसहिकहनिसिजिंदिय कुडुंतरपुव्वकीलिए पणीए ।
अइमायाहारविभूसणा य नव बंभगुत्तीओ ।।१।। [ प्रवचनसारोद्धार गाथा- ५५७]
४२७
तत्र वसतिः स्त्रीपशुपण्डकाकीर्णां सम्भाव्यमानमनोभवविकारोद्भवां परिहरतः प्रथमा गुप्तिः । तथा रागानुबन्धिनीं देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलहशृङ्गारसानुविद्धां कथां स्त्रीसम्बन्धिनीं स्त्रीभिर्वा सह परिहरतो द्वितीया । तथा निषद्या स्त्रीभिः परिभुक्तमासनशयनादिकमपि स्मरविकारोद्दीपनं त्यजतस्तृतीया । तथा इन्द्रियाणि स्त्रीणामविवेकिजनापेक्षया स्पृहणीयानि मुखनयनस्तनजघनादीनि तेषामपूर्वविस्मयनिर्भरतया विस्फारिताक्षमीक्षणं परिहरतश्चतुर्थी । तथा कुड्यान्तरं यत्रान्तरस्थेऽपि दम्पत्योर्मोहनादिशब्दः श्रूयते, तदपि मन्मथोद्रेकजन - कत्वान्मुञ्चतः पञ्चमी । तथा पूर्वं गृहस्थावस्थायां स्त्रीभिः सह यत् क्रीडितं तस्य स्मरणमपि स्मराग्निसन्धुक्षणं वर्जयतः षष्ठी । प्रणीतो वृष्यः स्निग्धमधुरादिरसस्तदासेवनं प्रधानधातुपरिपोषणवेदोदयनिमित्तं परित्यजतः सप्तमी । अतिमात्राहारश्चाकण्ठमुदरपूरणं तदपि मदनोन्मादजनकत्वेन मुञ्चतोऽष्टमी | विभूषां स्वाङ्गस्यैव स्नानाङ्गरागधूपपटवासकेशनखदन्तादिसमारचना । तामपि परिहरतो नवमी । 'नाकामी मण्डनप्रियः' [ ] इति श्रुतेः एवममूर्नवापि ब्रह्मगुप्तः सम्यगासेवमानानां महात्मनां मुनीनामेव मनसोऽपि स्मरविकारपरिहारः सुकरः । अत एव किम्भूतं ब्रह्मव्रतं ? ब्रह्मणः पितामहस्य, लोके परमे ब्रह्मण्यवतिष्ठमानत्वात् परमेष्ठिशब्दवाच्यस्यापि समर्थोऽहमजिह्मब्रह्मव्रतनिर्वाहे नवेत्यन्तर्भयप्रदम् । पशु-पशुपतिसाधारणत्वात् पुष्पायुधायुधव्यापारस्य । तदेवमेवंस्वरूपं ब्रह्मोपनिषन्निषन्नास्तीर्थकृदादयो ब्रह्मव्रताख्यं चतुर्थं महाव्रतं भणन्ति ॥ ४५६।।
वृष्य- स्त्रिग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते ७ । तथा रूक्षभैक्ष्यस्याप्यतिमात्र माहारम्आकण्ठमुदरपूरणं वर्जयेत्, ब्रह्मक्षतिकारित्वात् शरीरपीडाकारित्वाच्च ८ । तथा विभूषणा स्नान-विलेपन-धूपन-नखदन्त-केशसंमार्जनादिः स्वशरीरस्य संस्कारस्तां न कुर्यात्, अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथाऽऽत्मानमायासयतीति ९ । एता ब्रह्मचर्यस्य-मैथुनव्रतस्य गुप्तयः - परिरक्षणोपाया ब्रह्मचर्यगुप्तयो नव भवन्ति ॥
प्रव. सा. गा. ५५७ वृत्तौ ।।
इह तुलनायाम् आचाराङ्गस्य द्वितीयश्रुतस्कन्धस्य तृतीयाचूलिकामध्ये भावनाध्ययनस्य चतुर्थमहाव्रतस्य भावनाः दृश्यतां । उत्तराध्ययनस्य बंभचेरसमाहिठाणा षोडशमध्ययनम् दृश्यतां । योगशास्त्रप्रथमप्रकाशस्य श्लोक-३०-३१ मध्ये चतुर्थव्रतभावना दृश्यतां ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org