________________
४२६
हितोपदेशः । गाथा-४५६ - चतुर्थं महाव्रतम् ।।
सुराणां नराणां तिरश्चां च सम्बन्धिन्यो याः किल नार्यः प्रमदास्तासु आस्तां वाक्कायाभ्यामितरस्मरव्यापारप्रवर्त्तनं यावन्मनसा चेतसाऽपि विकारस्य सूक्ष्माक्षसङ्क्षोभलक्षणस्य यदिह वर्जनं परिहारः, स च नवब्रह्मगुप्तिगुप्तानां यतीनामेव भवति । कास्ता ब्रह्मगुप्तय इति चेदाह -
दिव्यादिमैथुनस्य चेति, आदिशब्दान्मनुष्यादिपरिग्रहः, तथा चोक्तं - ‘से दिव्वं वा माणुसं वे'त्यादि, विवर्जनं सर्वेषां चतुर्थस्तु मूलगुणः । चतुर्थमाह - दिव्यौदारिककामाणां कृता-ऽनुमत-कारितैः ।
मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् ।। - यो. शा. १/२३ ।। दिवि भवा दिव्याः, ते च वैक्रियशरीरसम्भवाः, औदारिकाश्च औदारिकतिर्यग्मनुष्यदेहप्रभवाः, ते च ते काम्यन्त इति कामाश्च, तेषां त्यागोऽब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । तञ्चाष्टादशधा - मनसा अब्रह्म न करोमि, न कारयामि, कुर्वन्तमपि परं नानुमन्ये, एवं वचसा कायेन चेति दिव्ये ब्रह्मणि नव भेदाः । एवमौदारिकेऽपीत्यष्टादश । यदाह - "दिव्यात् कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् ।
औदारिकादपि तथा, यद् ब्रह्माष्टादशविकल्पम् ।।" - (प्रशम० १७७) इति । कृता-ऽनुमत-कारितैरिति मनोवाक्कायत इति च मध्ये कृतत्वात् पूर्वोत्तरेष्वपि महाव्रतेषु सम्बन्धनीयम् ।।
- यो. शा. १/२३ वृत्तौ ।। 2. अथ ब्रह्मगुप्तीराह - 'वसही'त्यादि, ब्रह्मचारिणा स्त्री-पशु-पण्डकविवर्जिता वसतिरासेवनीया, तत्र स्त्रियो देवमानुषभेदात् द्विविधाः, एताश्च सचित्ताः, अचित्तास्तु पुस्तक-लेप्य-चित्रकर्मादिनिर्मिताः, पशवः-तिर्यग्योनिजाः, तत्र गोमहिषी-वडवा-वालेयादयः सम्भाव्यमानमैथुनाः, पण्डका:-तृतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्री-पुंसेवनाभिरताः, तत्संसक्तौ हि तत्कृतविकारदर्शनान्मनोविकारसद्भावेन ब्रह्मचर्यबाधासम्भवात् १ । तथा स्त्रीणां केवलानामेकाकिना कथा-धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपा न कथनीया, यदि वा स्त्रीणां सम्बन्धिनी कथा, यथा - 'कर्णाटी सुरतोपचारचतुरा, लाटी विदग्धप्रिया' इत्यादिरूपा न कर्तव्या, रागानुबन्धिनी हि देश-जाति-कुल-नेपथ्य-भाषा-गतिविभ्रम-गीत-हास्य-लीला-कटाक्ष-प्रणय-कलह-शृङ्गाररसानुविद्धा कामिनीनां कथा अवश्यमिह मुनीनामपि मनो विक्रियां नयतीति २ । तथा निषद्या-आसनम्, कोऽर्थः ? - स्त्रीभिः सहैकासने नोपविशेत्, उत्थितास्वपि तासु मुहूर्त तत्र नोपविशेत्, तदुपभुक्तासनस्य चित्तविकारकारणत्वात्, यदाह - __ “इत्थीए मलियसयणासणंमि तप्फासदोसओ जइणो । दूसेइ मणं मयणो कुटुं जह फासदोसेणं ।।१।।३। तथा अविवेकिजनापेक्षया स्पृहणीयानि स्त्रीणामिन्द्रियाणि-नयन-नासिका-मुख-कर्ण-देहादीनि उपलक्षणत्वादङ्गानि च स्तनजघनादीनि अपूर्वविस्मयरसनिर्भरतया विस्फारितलोचनो न विलोकयेत्, न च विलोकनानन्तरमहो सलवणत्वं लोचनयोः, सरलत्वं नाशावंशस्य, स्पृहणीयत्वं पयोधरयोरित्यादि तदेकाग्रचित्तश्चिन्तयेत्, तदवलोकनतञ्चिन्तनयोर्मोहोदयहेतुत्वात् ४ । तथा कुड्यान्तरं यत्रान्तरस्थेऽपि कुड्यादौ दम्पत्योः सुरतादिशब्दः श्रूयते ब्रह्मचर्यभङ्गभयाञ्च तत्परित्यागः ४ । तथा पूर्व-गृहस्थावस्थायां क्रीडितं-स्त्रीसम्भोगानुभवलक्षणं द्यूतादिरमणलक्षणं वा नानुस्मरेत्, तत्स्मरणेन्धनक्षेपात्स्मराग्निः संधुक्ष्यते ६ । तथा प्रणीतम् - अतिस्निग्धमधुरादिरसं भक्तं न भुञ्जीत, निरन्तरं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org