________________
हितोपदेशः । गाथा-४५५, ४५६ - तृतीयं महाव्रतम् ।। चतुर्थं महाव्रतम् ।।
४२५
मधुरं श्रुतिसुखदं । अगर्वितमनहङ्कारं । अनलीकं यथावस्थितं । सत्यमपि मृगयुप्रश्नादौ दृष्टमृगयूथादिकथनवद् बाधकं स्यादित्याह - अबाधकं इह परत्र वा बाधाविवर्जितम् । एवंविधमपि कदापि प्रलापप्रायं स्यादत आह - कार्यसारमर्थवत् । यत एव पूर्वोदितशेषविशेषणयुक्तमत एवानवद्यं निर्दोषम् । एवंविधं वचनं मुनिपुङ्गवैर्यजलप्यते तद् द्वितीयं मृषावादव्युदासरूपं महाव्रतम् तीर्थकृद्गणधरादयो वदन्तीति ।।४५४ ।। तृतीयं महाव्रतमाह - 'अवि दंतमित्तसोहणमदिनमनस्स जं न गिण्हंति ।
समतिणमणिणो मुणिणो तं हवइ महव्वयं तइयं ।।४५५।। आस्तां तावद् धनधान्यहिरण्यादिकम् । दन्तशोधनाय तृणशलाकादिमात्रमप्यन्यस्य परस्य सम्बन्धि वस्तुजातमदत्तं तत्स्वामिनाऽननुज्ञातं यन्मुनयो न गृह्णन्ति । अग्रहणे हेतुमाह - किम्भूता मुनयः ? समतृणमणयः । तृणे मणौ, स्वर्णेऽश्मनि, शत्रौ मित्रे चारक्तद्विष्टचेतसस्तेनैव च लोभसंक्षोभमुक्तास्तदिह तृतीयमदत्तपरिहारलक्षणं महाव्रतं भवति ।।४५५ ।। चतुर्थं महाव्रतं ब्रूते -
सुरनरतिरिनारीसुं, मणसा वि वियारवजणं जमिह ।
बंभाणस्स वि भययं, भणंति बंभव्वयं तं तु ।।४५६।। त्वम्' इति तदप्रियत्वान्न तथ्यम् । तथ्यमप्यहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो 'मया मृगा दृष्टाः' इति, तज्जन्तुघातहेतुत्वान्न तथ्यम् ।।
- यो. शा. १/२१ वृत्तौ ।। गाथा-४५५ 1. तुला - एवं चिअ गामाइसु, अप्पबहुविवज्जणं तइओ ।। - पञ्चव. गा. ६५२ ।। एवमेव - यथोक्तं ग्रामादिष्विति, आदिशब्दानगरादिपरिग्रहः, तथा चोक्तं - "से गामे वा नगरे वा" इत्यादि, अल्पबहुविवर्जनं तृतीयो मूलगुणः सूत्रोपन्यासक्रमादिति गाथार्थः ।। - पञ्चव. गा. ६५२ वृत्तौ ।।
तृतीयमाह - अनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामा हरता तंहता हि ते ।। - यो. शा. १/२२ ।। वित्तस्वामिना अदत्तस्य वित्तस्य यदनादानं तदस्तेयव्रतम् । तच्च स्वामि-जीव-तीर्थकर-गुर्व्वदत्तभेदेन चतुर्विधम् । तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिना यददत्तम् । जीवादत्तं यत् स्वामिना दत्तमपि जीवेनादत्तम्, यथा प्रव्रज्यापरिणामविकलो माता-पितृभ्यां पुत्रादिर्गुरुभ्यो दीयते । तीर्थकरादत्तं यत् तीर्थकरैः प्रतिषिद्धमाधाकर्मिकादि गृह्यते । गुर्व्वदत्तं नाम स्वामिना दत्तमाधाकर्मिकादिदोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते । नन्वहिंसापरिकरत्वं सर्वव्रतानाम्, अदत्तादाने तु केव हिंसा येनाहिंसापरिकरत्वं स्यात् ? इत्युक्तम्-बाह्याः प्राणा इत्यादि । यदि स्तेयस्य प्राणहरणं स्वरूपं मृग्यते तदा तदस्त्येव ।। ___- यो. शा. १/२२ वृत्तौ ।। गाथा-४५६ 1. तुला - दिव्वाइमेहुणस्स य, विवज्जणं सव्वहा चउत्थो उ ।
पंचमगो गामाइसु, अप्पबहुविवज्जणं चेव ।। - पञ्चव. गा. ६५३ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org