________________
४२४
हितोपदेशः । गाथा- ४५३, ४५४
-
प्रथमं महाव्रतम् ।। द्वितीयं महाव्रतम् ।।
'छविजीवनिकायं, जावज्जीवं पि तिविहं तिविहेणं । मणवयतहिं रक्खड़ जं तमिह महव्वयं पढमं ।।४५३ ।।
षड्विधमपि जीवनिकायं पृथिव्यप्तेजोवायुवनस्पतित्रसरूपं यावज्जीवमङ्गीकारात् प्रभृत्यामरणान्तं त्रिविधं त्रिविधेन मनोवाक्-तनुभिर्यतिर्यत् पालयति । तद् यथा मनसा षड्विधजीवनिकायं स्वयं न हन्ति, न चान्येन घातयति, न चान्यं घ्नन्तमनुमन्यते । वचसा पृथिव्यादीन् न हन्ति, न च घातयति, नानुमन्यते । कायेन न हन्ति, न घातयति, नानुमन्यते । इति नवकोटिविशुद्धा प्राणातिपातविरतिर्यत् प्रतिपाल्यते, तदिह प्रथमं महाव्रतमिति । । ४५३ ।। द्वितीयं महाव्रतमाह
'महरमगव्वियमणलियमवाहयं कज्जसारमणवज्जं ।
जं जंप वयणं, तं बिंति महव्वयं बीयं ॥। ४५४ ।।
-
गाथा - ४५३1. तुला - सुहुमाईजीवाणं, सव्वेसिं सव्वहा सुपणिहाणं । पाणाइवायविमणमिह पढमो होइ मूलगुणो ||
- पञ्च व. ६५१ ।।
एकैकस्वरूपमाह - सूक्ष्मादीनां जीवानामिति, आदिशब्दाद्वादरादिपरिग्रहः, यथोक्तं - " से सुहुमं वा बायरं वे " त्यादि, सर्वेषामिति न तु केषाञ्चिदेव, 'सर्वथा' सर्वैः प्रकारैः कृतकारितादिभिः 'सुप्रणिधानं' दृढसमाधानेन, प्राणातिपातविरमणमिति, विरमणं - निवृत्तिः, 'इहे' ति मनुष्यलोक एव प्रवचने वा प्रथमो भवति मूलगुणः, शेषाधारत्वात् सूत्रक्रमप्रामाण्याच्च प्रथम इति गाथार्थः ।। - पञ्चव. ६५१ वृत्तौ ।। प्रथमं मूलगुणमाह - न यत् प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ।। यो. शा. १/२० ।। । तद्योगात् त्रसानां
.यो. शा. १/ २० वृत्तौ ।।
-
-
प्रमादोऽज्ञान- संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-योगदुष्प्रणिधान-धर्मादरभेदादष्टविधः स्थावराणां च जीवानां प्राणव्यपरोपणं हिंसा । तन्निषेधादहिंसा प्रथमं व्रतम् ।।
गाथा - ४५४ 1. तुला - कोहाइपगारेहिं, एवं चिअ मोसविरमणं बीओ । पञ्चव. गा. ६५२ ।। क्रोधादिभिः प्रकारैरिति, आदिशब्दाल्लोभादिपरिग्रहः, यथोक्तं- 'से कोहा वा लोभा वेत्यादि, एवमेव - सर्वस्य सर्वथा सुप्रणिधानं मृषाविरमणं द्वितीयो मूलगुणः, सूत्रक्रमप्रामाण्यादेव, पञ्च व. गा. ६५२ वृत्तौ ।
द्वितीयमाह प्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते । तत् तथ्यमपि नो तथ्यमप्रियं चाऽहितं च यत् ।। यो. शा. १/२१ ।
तथ्यं वचोऽमृषारूपमुच्यमानं सूनृतव्रतमुच्यते । किं विशिष्टं तथ्यम् ? प्रियं पथ्यं च तत्र प्रियं यत् श्रुतमात्रं प्रीणयति, पथ्यं यदायतौ हितम् । ननु तथ्यमेवैकं विशेषणमस्तु सत्यव्रताधिकारात्, प्रिय-पथ्ययोस्तु कोऽधिकारः ? अत आह- तत् तथ्यमपीति, व्यवहारापेक्षया तथ्यमपि यदप्रियं यथा चौरं प्रति 'चौरस्त्वम्' कुष्ठिनं प्रति 'कुष्ठी
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org