________________
हितोपदेशः । गाथा-४५१, ४५२ - सर्वविरते: स्वरूपम् ।।
४२३
॥ सर्वविरताख्यं चतुर्थं मूलद्वारम् ।। दर्शितं सोदाहरणं देशविरत्याख्यं तृतीयं मूलद्वारम् । साम्प्रतं सर्वविरत्याख्यं चतुर्थं प्रस्तावयन्नादौ तत्स्वरूपमाह -
जं पुण पाणिवहाईण तिविहं तिविहेण सव्वसंवरणं ।
सा होइ सव्वविरई विरई भवभमणदुक्खाणं ॥४५१।। पुनः शब्दो देशसंवरणापेक्षया । अतो यत् प्राणिवधादीनां पञ्चानां पापस्थानानां त्रिविधं त्रिविधेन मनोवाक्कायैः करणकारणानुमतिभिश्च सर्वसंवरणमैकान्तिकः परिहारः, सा यतिधर्मापरपर्याया सर्वविरतिर्भवति । किम्भूता ? भवभ्रमणदुःखानां संसृतिसरणसमुत्थाशर्मणां विरतिहेतुत्वाद् 'विरतिः । सम्यगासेवितसर्वविरतयो हि विमुच्यन्त एव भवोद्भवदुःखेभ्य इति ।।४५१।। यतिधर्मस्यैव समुदायार्थमाह -
पंच य महव्वयाई, समिईओ पंच तिनि गुत्तीओ ।
खंतिप्पमुहा य गुणा, इय जइधम्मो समासेण ।।४५२।। इत्युच्यमानस्वरूपेणायं यतिधर्मः समासतो भवति । कथमित्याह - पञ्च महाव्रतानि वक्ष्यमाणानि । समितयोऽपि पञ्च पुरो वर्ण्यमाना: । तिस्रो गुप्तयश्च वक्ष्यमाणा एव । तथा क्षान्त्यादयः क्रोधादिनिग्रहप्रकाराः प्रस्ताव्यमाना एवेति सङ्क्षपतो यतिधर्मः ।।४५२ ।। महाव्रतादीन्येव यथोद्देशं प्रत्येकं व्याचिख्यासुरादौ प्रथमं महाव्रतमाह -
गाथा-४५१ 1. विरमणं विरतिः ।।
___ - अभि. ना. श्लो. १५२२ स्वो. टी. 11 गाथा-४५२ 1. सर्व सावद्ययोगानां त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा ।। अहिंसासूनृतोऽस्तेय-ब्रह्मचर्याऽपरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ।। - यो. शा. १/१८-१९ ।। 2. ईर्या-भाषैषणा-ऽऽदान-निक्षेपोत्सर्गसंज्ञकाः । पञ्चाहुः समितीस्तिस्रो गुप्तीनियोगनिग्रहात् ।। - यो. शा. १/३५ ।। 3. "खंती मद्दव अज्जव, मुत्ती तव संजमे अ बोद्धव्वे । सञ्चं सोयं आकिंचणं च बंभं च जइधम्मो ।।"
- आव. सङ्ग्रहणी गा. ३ ।। खंती मुत्ती अज्जव, मद्दव तह लाघवे तवे चेव । संजम चाओ ऽकिंचन, बोद्धव्वे बंभचेरे य ।।
__- प्रव. सारो. गा. ५५४ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org