________________
४२२
हितोपदेशः । गाथा- ४५० देशविरतेः फलम् ।। गृहिणो विशेषकृत्यानि ।।
चैत्यद्रव्यमादिशब्दात्तदायादानादीनि रक्षन्तः पालयन्तः । उपलक्षणं चैतदनुपेक्षणस्य । तथा साधारणं सर्वधर्म्मपात्रोपयोगि यद् द्रविणं तेन सप्तापि पूर्वोपवर्णितस्वरूपाणि क्षेत्राणि प्रीणयन्तः || ४४९ ।। तथा
-
-
'रहजत्ततित्थजत्तापमुहेहिं पवयणं पभाविंता ।
इय जे वट्टेति गिही न तेसि निव्वुइपहो दुलहो । ।४५० ।।
रथानां मणिस्वर्णदन्तकाष्ठादिमयानां जङ्गमार्हन्मन्दिराणां यथावसरं विधिवद् यात्राभिः । तथा तीर्थान्यर्हतां जन्म- - निष्क्रमण-ज्ञान-निर्वाणादिस्थानानि तेषु चतुर्विधसङ्घसमुदयेनाद्भुतप्रभावनापुरस्सरं च यात्राभिः । एतत्प्रमुखैरपरैरप्यर्हच्छासनोन्नतिहेतुभिः प्रभावनाङ्गैः प्रवचनं प्रभावयन्तः । इति भणितन्यायेन गृहमेधिनो गीतार्थगुर्वाज्ञापुरस्सरमाजन्माऽपि प्रवर्त्तन्ते तेषामासतां स्वर्गादिसुखानि यावन्निर्वृतिपथः शिवमार्गोऽपि न दुर्लभः । भवाष्टकाभ्यन्तरं प्राप्य इत्यर्थः ।।४५० ।। अतः
दुरन्तं मिथ्यात्वं विदलयति मालिन्यविकलम्, विधत्ते सम्यक्त्वं सफलयति नृत्वादिदशकम् ।
अकृत्यं कृत्यं चोपदिशति च भक्ष्यं तदितरम्,
समानाता सम्यक् प्रथयति न किं देशविरतिः ।।१।। किञ्च
बुधसंसदि भाति यथा बुधो वनचरेषु यथा किल नागरः । तनुधनेषु यथाद्भुतभूतिभागविरतेषु तथा विरतो गृही ॥ २ ॥
Jain Education International 2010_02
इति नवाङ्गवृत्तिकारसन्तानीय श्रीरुद्रपल्लीय - श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस - श्रीप्रभानन्दाचार्यसोदर्यपण्डित - श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणे देशविरत्याख्यं तृतीयं मूलद्वारं समाप्तम् । । श्रीः ।।
2. दृश्यतां गाथा-११८तः १७० पर्यन्तं सप्तक्षेत्राणां स्वरूपम् ।
गाथा-४५० 1. यात्रा च त्रिधा । यदुक्तं, - " अष्टाह्निकाभिधामेकां, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ।। - श्राद्धविधिप्रकाश-५ मध्ये गा. १२ - टीकायां दृश्यतां यात्रात्रिकस्वरूपम् ।।
2. जत्ता महूसवो खलु, उद्दिस्स जिणे स कीरई जो उ । सो जिणजत्ता भण्णइ, तीइ विहाणं तु दाणा । । १ ।। 3. यथा - दाणं तवोवहाणं, सरीरसक्कारमो जहासत्ति । उचिअं च गीअ-वाइअ - थुइ थोत्ता पेच्छणाइआ ।।२।।
यात्रापञ्चाशक गा. ४-५ ।।
For Private & Personal Use Only
www.jainelibrary.org