________________
४२८
हितोपदेशः । गाथा-४५७ - पञ्चमं महाव्रतम् ।।
पञ्चमं महाव्रतमभिधत्ते - .
धणधन्नहिरन्नाइसु, सावयउवगरणवसहिपभिईसु ।
मुच्छाविच्छेयपरं, अपरिग्गहमिहं वयंति विऊ ।।४५७।। धनधान्यहिरण्यादिषु नवसु परिग्रहाङ्गेषु । तथा श्रावकोपकरणवसतिप्रभृतिषु । द्विपदापदवास्तुपरिग्रहग्रहणेन श्रावकोपकरणवसतीनामुपात्तानामप्यगीतार्थमुनिमनोमूर्छालम्बनहेतुत्वेन पुनरुपादानम् । अत एतेषु ममत्वालम्बनेषु मूर्छाविच्छेदपरमपरिग्रहाख्यं पञ्चमं महाव्रतं विदस्तत्त्वज्ञा वदन्ति । ननूपकरणादिपरिहार एवापरिग्रहव्रतमित्यस्तु, किं मूर्छाविच्छेदेन, तदभावे निरवकाशैव मूछेति नैवम्, न खलु धर्मोपकरणपरिहारमात्रेण मुनीनामपरिग्रहता किन्तु तेषु मूर्छाविच्छेदेन सा स्यात् । यदाहुः -
जं पि वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलजट्ठा धारंति परिहरंति य ।।१।।
न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । .. मुच्छा परिग्गहो वुत्तो इई वुत्तं महेसिण ।।२।। त्ति [दशवे. अ. ६, गा. २०-२१] ततो मूर्छाविच्छेद एवापरिग्रह इति ।।४५७ ।। तथा - गाथा-४५७ 1. तुला - पंचमभंगो गामाइसु, अप्पबहुविवजणं चेव ।। - पञ्चव. गा. ६५३ ।। पञ्चमो मूलगुणः ग्रामादिषु, आदिशब्दानगरादिपरिग्रह एव, यथोक्तं - "से गामे वा नगरे वे'त्यादि, अल्पबहुविवर्जनमेव सर्वथैवेति गाथार्थः ।। - पञ्चव. गा. ६५३ वृत्तौ ।। पञ्चममाह - सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः ।।
यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः ।। - यो. शा. १/२४ ।। सर्वभावेषु द्रव्य-क्षेत्र-काल-भावरूपेषु यो मू या गर्द्धस्य त्यागो न तु द्रव्यादित्यागमात्रं सोऽपरिग्रहव्रतम् । ननु परिग्रहत्यागोऽपरिग्रहव्रतं स्यात्, किं मूर्छात्यागलक्षणेन तल्लक्षणेन ? अत आह-यदसत्स्वपीति । यस्मादसत्स्वप्यविद्यमानेष्वपि द्रव्य-क्षेत्र-काल-भावेषु मूर्च्छया चित्तविप्लवः स्यात् । चित्तविप्लवः प्रशम-सौख्यविपर्यासः । असत्यपि धने धनगर्द्धवतो राजगृहनगरद्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति । सत्यपि वा द्रव्य-क्षेत्र-काल-भावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरुपद्रवमनसां प्रशमसुखप्राप्त्या चित्तविप्लवाभावः । अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् । यदाह “यद्वत्तुरगः सत्स्वप्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ।।" [प्रशम० १४१]
यथा च धर्मोपकरणवतामपि मूर्छारहितानां मुनीनां न परिग्रहग्रहित्वदोषस्तथा व्रतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनाम्, तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ।। यो. शा. १/२४ वृत्तौ ।। पञ्चमहाव्रतस्य स्वरूपम् दृश्यतां प्रवचनसारोद्धारे गा. ५५२ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org