SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-४५८, ४५९, ४६०, ४६१ - षष्ठं रात्रिभोजनव्रतम् ।। महाव्रतानां उपस्तुतिः ।।४२९ दिणरयणिगहणभोयण - भेयचउन्भंगिसंगयं जं च । तं राईभत्तं पि हु, एयाणुगयं चयंति मुणी ।।४५८।। तदेवंविधं रात्रिभुक्तं निशाभोजनमप्येतदनुगतं महाव्रतप्रतिबद्धं यतयस्त्यजन्ति । किम्भूतम् ? दिनरजनीग्रहणभोजनभेदचतुर्भङ्गीसङ्गतम् । तद्यथा - दिवा गृहीतं रात्रौ भुक्तमित्येको भङ्गः । रात्रौ गृहीतं दिवा भुक्तमिति द्वितीयः । रात्रौ गृहीतं रात्रौ भुक्तमिति तृतीयः । दिवा गृहीतं दिवा भुक्तमिति चतुर्थः । अत्राद्यत्रयमशुद्धम्, चतुर्थस्तु सुविशुद्ध इति ।।४५८ ।। महाव्रतान्येवोपस्तौति - एए पंच मुणीणं, महब्वया पव्वय ब्व अइगरुया । धीरचरियाण सुवहा, सुदुव्बहा कीवपयईणं ।।४५९।। एतानि पूर्वोदितानि पञ्चापि मुनीनां महाव्रतानि पर्वता इवातिगुरुतराणि । अत एव धीरचरितानामुत्तमप्रकृतीनां सुवहानि । क्लीबप्रकृतीनां तु सुतरां दुर्वहाणीति ।।४५९।। किञ्च - एए धम्मरहस्सं, एइ चिय सव्वविरइसव्वस्सं । एए परमं नाणं एइ चिय मुक्खपहजाणं ।।४६०।। एतानि महाव्रतानि धर्मस्य सर्वज्ञोपज्ञस्य क्षान्त्यादिलक्षणस्य रहस्यं तात्पर्यम् । एतान्येव च सर्वविरतेयतिधर्मस्य सर्वस्वं मूलनीवी । एतानि महाव्रतानि धर्मस्य सर्वज्ञोपज्ञस्यैव परमं प्रकृष्टं ज्ञानम् । महाव्रतानि हि यथाख्यातं चारित्रं, तदेव चाप्रतिपातिनो ज्ञानस्य कारणमत एतान्येव तत्त्वतो ज्ञानम् । तत एवैतान्येव मोक्षपथे निर्वृतिवर्त्मनि यानमिव । यानं विना ह्येवंविधं सुदृढवाहनं दुष्प्रापमत्यन्तदूरान्तरितं निर्वाणनगरमिति ।।४६० ।। तथा - एएहिं अणुग्गहिओ दमगो वि गुरुत्तणं तहा लहइ । ___जह चक्कवट्टीणो वि हु महंति अहमहमिगाइ इमं ।।४६१।। एतैः प्राणातिपातविरमणादिभिर्महाव्रतैरनुगृहीतोऽध्यासितो द्रमको रङ्कप्रायोऽपि पुमांस्तथाकथमपि गुरुत्वमाप्नोति यथैनमासतां मण्डलेश्वरादयो यावश्चक्रवर्तिनोऽखण्डषट्खण्डमेदिनीमण्डलाखण्डला अप्यहमहमिकयाऽहंपूर्विकया महन्ति पूजयन्ति ।।४६१।। गाथा-४५८ 1. तुला - असणाइभेअभिन्नस्साहारस्स चउव्विहस्सावि । णिसि सव्वहा विरमणं, चरमो समणाण मूलगुणो ।। - पञ्चव. गा. ६५४ ।। __ अशनादिभेदभिन्नस्याहारस्यैव चतुर्विधस्यापि स्वतन्त्रसिद्धस्य, निशि सर्वथा विरमणं भोगमाश्रित्य 'चरमः' पश्चिम एषः, षष्ठ इत्यर्थः, श्रमणानां मूलगुण इति गाथार्थः ।। - पञ्चव. गा. ६५४ वृत्तौ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy