SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४३० हितोपदेशः । गाथा-४६२, ४६३, ४६४ - महाव्रतानां उपस्तुतिः ।। रोरकथानकम् ।। अपरं च - पिच्छह विरइफलं फुरंतमणिमयकिरीडकोडीहिं । . पयनहपंतिं विलिहंति तियसपहुणो मुणिजणस्स ।।४६२।। पश्यतावलोकयत विरतेः प्रस्तावात् सर्वविरतेः फलं महिमानम् । येन यन्मुनिजनस्य पदयोर्नखपङ्क्तिं त्रिदशपतयो वृन्दारकवृन्दारका अपि विलिखन्ति समुत्तेजयन्ति काभिः ? प्रेढोलद्रत्नकोटीभिरित्यहो! संयमस्य माहात्म्यमिति ।।४६२ ।। एवं च - उच्छिंदिऊण गिहवास-पासमइनिसियतवकिवाणेण । धन्ना अप्पडिबद्धा, विहग ब्व महीइ विहरंति ।।४६३।। उच्छिन्द्योन्मोच्य गृहवासपाशं प्रियकलत्रपुत्रादिममत्वबन्धनम् । केन ? अतितीक्ष्णतपःकृपाणेन समुचितस्वनिशितासिना पाशोच्छेदः । धन्याः सुचरितसुकृताः । प्रस्तावानिर्ग्रन्थयतयोऽप्रतिबद्धा द्रव्यक्षेत्रकालभावप्रतिबन्धवन्ध्याः । क्षितितले स्वं भव्याङ्गिवर्गं च संसारचारकान्मोचयन्तो विहरन्ति । के इव ? विहगा इव । यथा केनापि कृपालुना कृपाणादिछिन्नपाशा: कुन्ताः सर्वत्र स्वैरं विचरन्ति ।।४६३ ।। एवं च सति यद् विधेयं तदाह - तम्हा महब्बयाई लद्धं कह कहवि पुनजोएण । पालिज पयत्तेणं, रयणाई रोरपुरिसु व्व ।।४६४।। तस्मादेवं प्रभावान्यमूनि महाव्रतानि कथं कथमपि युगि समिलायोगन्यायेनागण्यपुण्यस्य [योगेन] प्राप्याणि प्राप्य महता प्रयत्नेन पालयेत् । अत्रोदाहरणमाहकानीव ? रोरपुरुषो रत्नानीव । सम्प्रदायगम्यं च रोररत्नप्राप्तिस्वरूपम् । ॥संस्कृतप्राकृतभाषामयं रोरकथानकम् ।। अस्तीह भरतभूमौ कमनीयपदार्थसार्थमणिकोशः । सिरिवच्छो इव वच्छो पुरिसुत्तममंडणं देसो ।।१।। सुरचितरुचिरोद्देशा नन्दीश्वरवसुमतीव तत्रास्ति । कोसंबी नामेणं नयरी नयरीइ रमणीया ।।२।। जिनमन्दिरेषु यस्यां सन्ध्यात्रितयेऽपि पटुपटहघोषैः । संतासिय व्व सविहे वि इंति न हु विग्घसंघाया ।।३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy