Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 483
________________ ४३८ हितोपदेशः । गाथा-४६७ - ईर्यासमितेः स्वरूपम् ।। ईर्यासमितिर्हि न खलु किञ्चिद्वस्त्वन्तरं, केवलं त्रसस्थावरजन्तुजाताऽभयदानदीक्षितानां मुनीनां प्राणिरक्षानिमित्तमात्मरक्षार्थं च चरणाग्रादारभ्य युगमात्रक्षेत्रं यावदवलोक्य यदीरणं गमनं सैवेर्यासमितिस्तदुपलक्षिताश्च मुनयोऽपीर्यासमितास्तेषाम् । क्व तद् गमनमित्याह - करितुरगनरखरादिभिः परिमलिते क्षुन्ने(ण्णे) पथि वर्त्मनि । अनुपमर्दिते हि पथि प्रचलतां यतीनामसुकरा षड्जीवनिकाययतना । पुनः किंविशिष्टे ? मिह हि रकरस्पृष्टे भास्वत्प्रभोद्भासिते । इयता च परिमलितेऽप्यध्वनि सम्पातिमसत्त्वसम्मभीरूणां मुनीनामुत्सर्गतो रात्रिगमने निषेधः । ननु तर्हि दिवा स्वेच्छमस्तु तेषां सञ्चारो, नेत्याह - अनवद्यं सावधरहितं कार्यं ज्ञानदर्शनचारित्रादिविषयं प्रयोजनमवश्यकृत्यमधिकृत्य । कथं गमनमित्याह - एकाग्रमनोनयनं मनोनयनैकाग्रयमन्तरेण भवत्येव संयमात्मविराधना । यदाहुः - पुरओ जुगमायाए पेहमाणो महिं चरे । वजंतो बीयहरियाइं पाणे य दगमट्टियं ।।१।। ओवायं विसमं खाणुं विजलं परिवजए । संकमेण न गच्छिज्जा विजमाणे परक्कमे ।।२।।त्ति [दशवै. अ.५, उ.१, गा. ३-४] ।।४६७।। गाथा-४६७ 1. तुला - ईर्यालक्षणमाह - लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य गतिरीर्या मता सताम् ।। - योग शा. १/३६ ।। ___ बस-स्थावरजन्तुजाताभयदानदीक्षितस्य मुनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादाग्रादारभ्य युगमात्रक्षेत्रं यावत् निरीक्ष्य ईरणमीर्या गतिः, तस्यां समितिरीर्यासमितिः । यदाहुः - "पुरओ जुगमायाए पेहमाणो महिं चरे । वजंतो बीय-हरियाई पाणे य दग मट्टियं ।।१।। ओवायं विसमंखाणुं विज्जलं परिवज्जए । संकमेण न गच्छिज्जा विजमाणे परक्कमे ।।२।।" (दशवै०५/१ गा. ३-४) गतिश्च मार्गे भवति, तस्य विशेषणं 'लोकातिवाहिते', लोकैरतिवाहिते अत्यन्तक्षुण्णे, चुम्बिते स्पृष्टे आदित्यकिरणैः । प्रथमविशेषणे परैर्विराधिते मार्गे गच्छतो यतेः षड्जीवनिकायविराधना न भवति, उन्मार्गेण न गन्तव्यमिति चाह । तथाविधेऽपि मार्गे रात्रौ गच्छतः सम्पातिमसत्त्वविराधना भवेदिति तत्परिहारार्थं द्वितीयविशेषणम् । एवंविधोपयोगवतश्च गच्छतो मुनेः कथञ्चित् प्राणिवधेऽपि प्राणिवधपापं न भवति । यदाह - "उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए । वावज्जेज कुलिंगी मरिज तं जोगमासज्ज ।।१।।" । "न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए । अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ।।२।।" (ओघ नि० गा- ७४९-७५०) । तथा - ___ "जिअदु व मरदु व जीवो अजदाचारस्स निच्छओ हिंसा । पयदस्स णत्थि बंधो हिंसामेत्तेण समिदस्स ।।" (प्रवचन० ३/१७) - योग शा. १/३६ टीका० ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534