Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 482
________________ हितोपदेशः । गाथा-४६५, ४६६, ४६७ - अष्टप्रवचन मातरः ।। ईर्यासमितेः स्वरूपम् ।। ४३७ व्याख्यातानि सोदाहरणानि पञ्च महाव्रतानि । साम्प्रतं समितिगुप्तीनामवसरः, ताश्चेह प्रवचनमातृशब्दवाच्या इत्येतदेव प्रस्तावयन्नाह - एयं च वयसरीरं लालिजइ जाहिं सुट्ट अणवरयं । अट्ठप्पवयणमायाउ ताउ लेसेण सीसंति ।।४६५।। . इदं च पूर्वोदितं महाव्रतलक्षणं यतीनां शरीरं यकाभिः सुष्ठु मातृप्रेम्णा अनवरतमहर्निशं लाल्यते सलीलमुपचयं प्राप्यते । ताः प्रवचनमातरोऽष्टावपि लेशेन समासेन कथ्यन्ते । समुचितं च मातृजनस्याऽपत्यादेर्वपुालनमिति ।।४६५ ।। ता एव नामतः प्राह - 'इरिया-'भासा-एसण- आयाणु-"स्सग्गनामधेयाओ । __ समिईओ पंच 'मण वयण कायगुत्तित्तयं ताउ ।।४६६।। समितिशब्दस्य प्रत्येकमभिसम्बन्धादीर्यासमिति-र्भाषासमिति-रेषणासमिति-रादानसमितिरुत्सर्गसमितिनामधेयाः पञ्च समितयस्तथा मनोगुप्ति-वाग्गुप्ति-कायगुप्तिलक्षणं गुप्तित्रयं च ताः प्रवचनमातर इति ।।४६६।। तत्रादावीर्यासमितिमाह - इरियासमियाण भवे परिमलियपहम्मि मिह[हिरकरपुढे । अणवजकजमासज गमणमेगग्गमणनयणं ।।४६७।। गाथा-४६६ 1. तुला - मूलगुणरूपं चारित्रमभिधायोत्तरगुणरूपं तदाह - अथवा पञ्चसमिति-गुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः ।। - योग शा. १/३४ ।। समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा । अथवा सं सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इतिः चेष्टा समितिः, पञ्चानां समितीनां समाहारः पञ्चसमिति । गुप्तिरात्मसंरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः । गुप्तीनां त्रयं गुप्तित्रयम् । पञ्चसमिति च गुप्तित्रयं च, ताभ्यां पवित्रितं यच्चरित्रं यतीनां चेष्टा सा सम्यक्चारित्रमुच्यते । सम्यक्प्रवृत्तिलक्षणा समितिः, प्रवृत्ति-निवृत्तिलक्षणा गुप्तिरित्यनयोर्विशेषः ।। - योग शा. १/३४ टीका० ।। अथ समितिगुप्तीश्च नामत आह - ईर्या-भाषै-षणा-ऽऽदान-निक्षेपो-त्सर्गसंज्ञकाः । पञ्चाहुः समितीस्तिस्रो गुप्तीनियोगनिग्रहात् ।। - योग शा. १/३५ ।। ईर्यासमिति षासमितिरेषणासमितिरादाननिक्षेपसमितिरुत्सर्गसमितिरित्येताः पञ्च समितीब्रुवते तीर्थकराः । त्रिसंख्या योगास्त्रियोगा मनो-वाक्-कायव्यापाराः, तेषां निग्रहो निरोधः प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गनिवारणं च । निग्रहादिति हेतौ पञ्चमी, तेन मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरिति तिस्रो गुप्ती॰वते ।। - योग शा. १/३५ टीका० ।। _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534