________________
हितोपदेशः । गाथा-४२८ - द्वितीयगुणव्रतस्वरूपम् ।।
उपलक्षणं चैतन्मांसस्य । ततः स्थल-जल - खचरादिजन्तूनां त्रिविधं मांसम् । तथा रजनीभक्तमन्यदप्येवम्प्रकारं प्रत्यक्षदृष्टदोषं केवलिदृष्टदोषं च वर्जनीयवस्तुजातं वर्जयेत् । तथा च तत्सङ्ग्रहगाथा -
'पंचुंबरि" चउविगई' हिम"-विस" - करगे" य सव्वमट्टी य । राईभोयणगं४ चिय बहुबीय" - अनंत " - संधाणा " ।।१।। घोलवडा" वाइंगण" अमुणियनामाइं पुप्फफलयाई । तुच्छफलं" - चलियरसं वज्जह वज्जाणि बावीसं ||२|| [
३९८
] इति
तथा
अशन-खाद्य-स्वाद्य-पान-वस्त्र- आभरण-कुसुमाङ्गराग-शयन- आसन- सच्चित्त- द्रव्यविकृतिप्रभृतीनां प्रतिदिनोपभोग्यानामाहोरात्रिकीं प्रमितिमत्र व्रते विधत्ते ।।४२८।।
2. अभक्षस्य संग्रहगाथा तच्चेदम् -
पंचुंबरि चउविगई हिम-विस- करगे य सव्वमट्टी य । रयणीभोयणगं चिय बहुबीय - अणंत-संधाणं ।।२४५।। घोलवडा वायंगण अमुणियनामाणि फुल्ल-फलयाणि । तुच्छफलचलियरसं वज्जह वज्जाणि बावीसं ।।२४६।। 'पंचुंबरी 'त्यादि पञ्चानामुदुम्बराणां समाहारः पञ्चोदुम्बरी - वट-पिप्पलोदुम्बर-प्लक्ष- काकोदुम्बरीफलरूपा समयप्रसिद्धा, सा मशकाकारसूक्ष्मबहुजीवभृतत्वाद्वर्जनीया, तथा चतस्रो विकृतयो मद्य मांस-मधु-नवनीतरूपा वर्ज्याः, सद्य एव तत्र तद्वर्णानेकजीव-सम्मूर्च्छनात्, तथा हिमं शुद्धासङ्ख्याप्कायरूपत्वात्, तथा विषं मन्त्रोपहतवीर्यमपि उदरान्तर्वर्तिगण्डोलकादिजीवविघातहेतुत्वात्, मरणसमये महामोहोत्पादकत्वाच्च, तथा करका अप्यसङ्ख्याप्कायिकत्वात् तथा सर्वापि मृत्तिका दर्दुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तत्वात्, सर्वग्रहणं खटिकादि तद्भेदपरिग्रहार्थम्, तद् भक्षणस्यापि आमाश्रयादिदोषजनकत्वात्, तथा रजनीभोजनं बहुविधजीवसम्पातसम्भवेन ऐहलौकिकपारलौकिकदोषदुष्टत्वात्, तथा बहुबीजं - पम्पोटकादि प्रतिबीजं जीवोपमर्दसम्भवात्, तथा अनन्तानि अनन्तकायिकानि अनन्तजन्तुसन्ताननिर्घातननिमित्तत्वात्, तथा सन्धानम् - अस्त्यानकं बिल्वकादीनां जीवसंसक्तिहेतुत्वात् ।।२४५।।
तथा 'घोलवडे 'त्यादि, घोलवटकानि उपलक्षणत्वादामगोरससम्पृक्तद्विदलानि च केवलिगम्यसूक्ष्मजीवसंसक्तिसम्भवात्, तथा वृन्ताकानि निद्राबाहुल्यमदनोद्दीपनादिदोषदुष्टत्वात्, तथा स्वयं परेण वा येषां नाम न ज्ञायते तान्यज्ञातनामानि पुष्पाणि फलानि, अज्ञानतो निषिद्धफलप्रवृत्तौ व्रतभङ्गसम्भवात् विषफले तु प्रवृत्तौ जीवितविनाशात्, तथा तुच्छम् - असारं फलं मधूकबिल्वादेः उपलक्षणत्वाच्च पुष्पमरणि-शिगु-मधुकादेः, पत्रं प्रावृषि तण्डुलीयकादेः बहुजीवसम्मिश्रत्वात् यद्वा तुच्छफलम् -अर्धनिष्पन्नकोमलचवलकशिम्बादिकम्, तद्भक्षणे हि तथाविधा तृप्तिरपि नोपजायते, दोषाश्च बहवः सम्भवन्ति, तथा चलितरसंकुथितान्नम्, उपलक्षणत्वात् पुष्पितौदनादि, दिनद्वातीतं च दधि वर्जनीयम्, जीवसंसक्तया प्राणातिपातादिलक्षणदोषसम्भवात् एतानि द्वाविंशतिसङ्ख्यानि वर्जनीयानि वस्तूनि कृपापरीतचेतसः सन्तो हे भव्यजना ! वर्जयत परिहरतेति । । २४६ | |
- प्रव. सा. गा. २४५-२४६ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org